OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, August 5, 2015

5/8/2015

कॆरळदॆशॆ संस्कृताध्यापकानां समराङकणॆ नियुक्तिः

https://blogger.googleusercontent.com/img/b/R29vZ2xl/AVvXsEi9CPSh310YYSg_teoTWeO50Bo7ITfd2Smo3lJmw4iiOxVFEBRU-Kj6rAoFEXeAqd9CLwpN5FtxFpqqslGbUUql2QCz6lRKRUE3bhpivTmAjr2z_FH-WpWUkgH2-7G2biawifmaS9QgUw/s1600/DSC_1013.JPG

अनन्तपुरी:-   पाठपुस्तकानि मुद्रणं पूर्तीकृत्य छात्रेभ्यः इतः पर्यन्तं न लब्धम् इत्यनेनैव संस्कृताधपकाः समरमार्गे पतिताः  केरलसर्वकारस्य शैक्षिकमन्त्रिणा  अब्दुरब् महोदयेन पुस्तकप्राप्त्यर्थं यथासमयं किमपि न कृतं इति केरळ  संस्कृत अध्यापकफ़ेटरेशन् नेतारः अवदत् . 
 फ़ेटरेशन् द्वारा आयोजिते समरे भुवत्पूर्व सजिवः सि दिवाकरः उद्घाटनं कृतवान् वैदेशिक भाषायै कियत् प्राधान्यमस्ति भारते तावन्मात्र प्रधान्यमपि नास्ति संस्कृतस्य इहि सः अवदत्

चेन्नै नगरे केन्द्रियविद्यालय-परिसरे शिक्षक-कार्यशाला

  संस्कृतभारती, केन्द्रियविद्यालयः च इति आभ्यां परस्पर-समाश्रये संस्कृतशिक्षकशिल्पशाला संपन्ना । अस्यां १०० विद्यालयस्य तथा बालभारती शिक्षकाः भागमवहन् ।  उद्घाटनसत्रे भाषमाणः संस्कृताभिमानी केन्द्रियविद्यालयस्य प्रांशुपालः श्रीवैद्यलिङ्गः संस्कृतभाषायाः महत्त्वं नितराम् अश्लाघत । संस्कृतभारत्याः पक्षतः मुख्यातिथिः आसीत् उत्तरतमिळ्नाडु-प्रान्तकार्यदर्शी श्रीहरीन्द्रः । सः कार्यक्रमस्य मुख्योद्धेशम् उपस्थाप्य समाजे संस्कृतभाषायाः अनिवार्यताम् उक्त्वा सर्वान् संस्कृत-प्राचारकार्ये योजयितुं प्रार्थयत ।
विद्यालय-अध्यापकेभ्यः चालिते सत्रे हिन्दु-विद्यालयस्य प्रमुख-अध्यापकौ श्रीवासन् तथा श्रीराजा च संस्कृत-पाठने कथं पुरातन-शैल्या सह आधुनिक-पाठन-पद्धतिः आनेतुं शक्या इति सन्दर्शिनी-माध्यमेन उपस्थापितवन्तौ । उत्तरतमिळ्नाडु-बालभारती-प्रमुखा श्रीमतीविजी आदर्शशिबिरं परिचायितवती । आगस्ट्-मासे संपत्स्यमाने बालोत्सवे प्रमुख-अध्यापकानां दायित्वं कार्यशालायाम् अस्यां उद्घोषितम् । महासम्मेलने अध्यापकानां योगदानस्य अनिवार्यता तथा तेषां भागग्रहणं विशदतया चर्चितम् । समारोपसत्रस्य आध्यक्षं वहता उत्तरतमिळ्नाडु-उपाध्यक्षेण श्रीरामचन्द्रवर्येण पाठनं वैभवरीत्या कर्तुं मार्गाः उपस्थापिताः । शिक्षकेभ्यः प्रमाणपत्रं वितीर्य सुष्ठु निरूढा इयं कार्यशला प्रतिवर्षम् अनुवर्तेत इति सङ्कल्पेन अवसानं याता ।