OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, September 23, 2015

नियन्त्रणरेखायाः समीपे अपि अतङ्किन:  परिशीलनाङ्कणम्

नव दिल्ली-
 १७ संख्याकेषु केन्द्रेषु ११५० संख्याका: आतङ्किनः पाकिस्थानेषु पाकधिनिवेशकाश्मीरेषु च परिशीलनं कुर्वन्ति इति भारतसेनाया: मतम्  ।
नियन्त्रणरेखायाः समीपे २३ केन्द्रेषु  अवसरं प्रतिपाल्य तिष्ठन्ति ३२५ भीकरा: इति वदति भारत सैन्यनायक: लफ्. जन.सतीष् दुव। भारतीय बौद्धिकदलानां वाचमनुसृत्य १००० - ११५० भीकरा: तत्र परिशीलनं कुर्वन्त:सन्ति ।
एते नियन्त्रणरेखाया: समीपे २५ विक्षेपणतलानि निर्मितवन्तः । भारतम् आक्रमितुम् उद्युक्ताः भूत्वा ३१५-३२५ आतङ्किनः तिष्ठन्ति। किन्तु भारतीय सैनिकैः सुरक्षाम् अवर्धयत् । अधुनापि आतङ्किनाम् आगमनं वर्धन्ते ।

हज्ज् अनुष्ठानानि आरब्धानि।

मक्का - इस्लाम विश्वासिनां
पुण्यक्षेत्रे अनुष्ठानकर्माणि
आरब्धानि।सर्वे मिनां गच्छन्ति।अरफासंगमं अद्य 
भवति।


 

विद्यालयेषु शनिवासरे विरामः

अनन्तपुरी- केरलेषु विद्यालयेषु सर्वकारेण शनिवासरे विरामः प्रख्यापितः।अस्य स्थाने अक्टोबर् ३ शनिवारे प्रवृत्तिदिनं भविष्यति। विरामदिनानाम् आधिक्येन यथासमयम्  अध्ययनं न समाप्यते केरलेषु ।

स्लीप्पर् चिटिकानिरोधनंप्रतिनिवृत्तम्।
नव दिली - रेल्यात्रिकानां कृते दिने स्लीप्पर् चिटिकालाभाय प्रति निस्थाने counter मध्ये यत् सौकर्यमासीत् तत् पुनः- स्थापयितुं निश्चितम्। यात्रिकाणां महत्प्रतिषेधानन्तरमेव ईदृशः निर्णयः।

अन्ते नवमे दिने पुनर्जन्म .......

षिंला - अतिवृष्टौ यन्त्रदोषे च सति अनवरतं कृतं रक्षाप्रवर्तनं सफलम् । हिमाचलप्रदेशे सुरङ्गनिर्माणे अन्तर्बद्धौ मणिरामः सतीश तोमर: च नवमे दिने बहिर्लोकं दृष्टवन्तौ ।
शारीरिकास्वास्थ्यम्  अस्ति चेदपि तौ सम्भाषणं  कुरुतः । एतयोः सहप्रवर्तकस्य हृदयरामस्य कृते अन्वेषणं प्रचलति इदानीमपि ।

सप्तम्बर् १२ दिनाङ्के एव हिमालयन् कण्स्ट्रक्षन् कम्पनी कार्यकर्तार: एते त्रयः विलासपुरे किरातपुर - नेरचौक मार्गे निर्माणं कुर्वतः मार्गस्य सुरङ्गे अन्तर्बद्धाः । देशीयदुरन्तप्रतिरोधसेनायाः नेतृत्वे रक्षाप्रवर्तनम् आरब्धम् 1.2 मीटर् व्यासे 47 मीटर् गहने खनित्वा एव रक्षाप्रवर्तकाः सुरङ्गं प्राप्तवन्तः । तदभ्यन्तरे यन्त्रस्य प्रवर्तनमपि स्थगितम्। यन्त्रदोषं परिहृत्य पुनरपि खननम्। तथापि द्वयो: जीवः पुनर्प्राप्तः इति सर्वेषाम्‌  आनन्दः ।                                  लेखिका -सुजा हरिदासः