OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, September 27, 2015


हिमाचलप्रदेशस्य मुख्यसचिव: अपराधी इति विज्ञाय CBI दलेन गृहीतः
सिंला - अधिकं धनं स्वाधीनं कृतवान् इत्यस्मात् हिमाचलप्रदेशस्य मुख्य सचिव:  वीरभद्रसिंह: CBI दलेन गृहीतः। २००९ आरभ्य २०११ पर्यन्तं केन्द्रसचिवपदवीम् उपयुज्य ६.१ कोटि रुप्यकाणि व्याजेन आर्जितवान् इत्यस्मादेव अन्वेषणम् । सिंहस्य औद्योगिकगृहे सी.बी.ऐ. एन्फोर्स्मेन्ट् डयरक्टरेट् सङ्‌घैः कृते सुभद्रान्वेषणे(raid) वित्तार्जनमधिकृत्य रेखासञ्चयः गृहीत:। तस्य पत्नी प्रतिभा सिंह:, पुत्र: विक्रमादित्य सिंह.,पुत्री अपराजिता, LIC मध्यवर्ती आनन्द चौहान: च अस्मिन् भागभाक् एव। सिंहस्य पत्नी इदानीं लोकसभायां काङ्ग्रस् दलस्य सदस्या एव।


 सैद् अकबरुदीन् भारतस्य UN प्रतिनिधी

सैद् अकबरुदीन् photo tribune

  नव देहली - विदेश कार्य मन्त्रालयस्य पूर्वतनं वक्तारं  सैद् अक्बरुदीनं ऐक्यराष्ट्रसभायां भारतस्य प्रतिपुरुषत्वेन नियोक्तुं निश्चितः, पाकिस्थान्, चीना, बिट्टण् राज्येषु अपि नूतनानां प्रतिपुरुषाणां नियुक्ति: अभवन् । गौतं बंबावाले, विजय् गोखले, नवतेज् स्वर्ण च नियुक्ता: उद्योगिनः ।


मिनादुरन्तः-बहवःभारतीयाः अप्रत्यक्षाः।

दुबाय् - हज्जतीर्थाटनमध्ये मृतानां संख्या७७० अभवत्। भारतीयाः२२। बहवो भारतीयाः इदानीमपि अदृष्टाः वर्तन्ते।अन्यहजसंघ द्वारा सौदीराष्ट्रस्य हजसंघद्वारा च प्रस्थिताः ते इति आभ्यन्तरमन्त्रालयेन सूचितम्।


पञ्चम्याः राष्ट्रिय-संस्कृत-पत्रकार-संगोष्ठी 
नव देहल्ली- भारतीय संस्कृतपत्रकार सङ्घस्य कार्यकारिण्याः उपवेशनं सम्पन्नम् अवसरेस्मिन् अनेके निर्णयाः अध्यक्ष-निर्देशानुसारेण सर्वसम्मत्या च स्वीकृताः | विशेषेण वर्षेsस्मिन् दिसम्बर-मासे
१०-११ दिनाङ्कयोः दिल्ल्यां अक्षरधाम्नि संपत्स्यमानायाः पञ्चम्याः राष्ट्रिय-संस्कृत-पत्रकार-संगोष्ठ्याः कृते व्यवस्थाजातम् उपकल्पयितुं विस्तेरण कार्यकारिण्या परिचर्चितम् | पञ्चम्याः राष्ट्रिय-संस्कृत-पत्रकार-संगोष्ठ्याः कृते " nsjc2015@gmail.com"  इत्यत्र शोधपत्र-सार-संक्षेप-प्रेषणार्थं तिथिः [०१-१०-२०१५] -इतः वर्धयित्वा ओक्टोबर-मासस्य दशमिता [१०-१०-२०१५] करणीया इति | अस्याः संगोष्ठ्याः सहभागिभिः प्रतिनिधिभिः विभिन्न-समिति-सदस्यैः, भा.सं.प.सं-सदस्यैश्च स्वीय-पञ्जीकरणम् -[https://sites.google.com/site/nsjc2015/home]- इत्यत्र  ओक्टोबर-मासस्य २०-विन्शति-दिनाङ्कं यावत्  अनिवार्यतया करणीयमिति निवेदनम् अनुष्ठेयम् |
                       सङ्घ-लेखाकारस्य श्रीदिनेश-चतुर्वेदिनः कार्यालये भा.सं.प.संघस्य अध्यक्षः पद्मश्री-डो.रमाकान्त-शुक्लः, संघोपाध्यक्षः सपत्नीकः डो.सदानन्द-दीक्षितः, महासचिवः डो.बलदेवानन्द-सागरः, कोषाध्यक्षः डो.चन्द्रभूषणझाः च संघस्य वार्षिक-लेखापरीक्षणार्थं समुपागताः |                          - डो.लालाशङ्कर-गयावालः               


  वातिका(plantation)कर्म कराणां वेतनवर्धने निर्णयः नाभवत् ,श्व आरभ्य कर्मविरामः
अनन्तपुरी- ५०० रूप्यकाणि वेतनमावश्कमिति कर्मकराणां निवेदनं निरस्तमित्यतः श्वः आरभ्य अनिश्चितकालकर्म विरामाय आह्वानं कृतवन्तः प्रमुखकर्मकरसंघाः।

 वेगवान् कार् यानम् अवतारितम्।
 लण्टन्- लोकेषु वेगवान् सूप्पर् सोणिक् कार् यानम् बहिरागतम् । १६०० कि.मी वेग: । ८ वर्षस्य गवेषणानन्तरं विजयम्। ३५००० अश्वशक्तिः च ।