OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, September 21, 2015

 राज्य स्तरीय संस्कृत प्रतियोगिता
उत्तराखंडे उत्तराखंड संस्कृत अकादमयाः प्रयोजने राज्यस्तरीय संस्कृत प्रतियोगितायाः आयोजनमं प्रचलति। संपूर्णे उत्तराखंडे अधुना खंडस्तरीय जनपदस्तरीय च प्रतिस्पर्धाः प्रचलन्ति।अन्ते राज्यस्तरीय प्रतियोगीतायाः आयोजनमं भविष्यति। प्रतियोगितायां विद्यालयस्तरियाः महाविद्यालयस्तरियाः च छात्राः प्रतिभागं कुर्वन्ति।तत्र संस्कृत गीत-नाटक- नृत्य-भाषणादिनां प्रतिस्पर्धा भवति।पुरस्काररूपेण लक्षाधिक रूप्यकाणि सन्ति।

जगमोहन् डाल्मिया दिवङ्गतः
 
नव दिल्ली -    भारतीय क्रिकेट् सञ्चालकसमितेः अध्यक्षः जग् मोहन् डाल्मिया दिवङ्गतः । हृदयाघातकारणादेव अस्य मृत्युः अभवत् ।कलकत्ता नगरे अद्य सायं सः मृत्युवशगः अभूत् ।


  गायिका राधिकातिलकः दिवङ्गता
Image result for radhika thilakकोच्चि - प्रशस्ता  गायिका राधिकातिलकः दिवङ्गता। एरणाकुले कस्मिंश्चित् आतुरालये आसीत् अन्त्यम् । 45 वयः आसीत् । ज्वरबाधया केभ्यश्चित् दिनेभ्यः चिकित्सायाम् आसीत् । अणुबाधया एव मरणम् अभवत्। सार्धैकवर्षतः सा अर्बुदरोगबाधिता आसीत् ।
ललितसङ्गीतमण्डले कोकिलस्वरमिव केरलजनानां मनस्सु चिरप्रतिष्ठिता सा । अनन्तरं कैरलीचलच्चित्ररङ्गे कानिचन अतिमोहनानि गीतानि अपि तया प्रदत्तानि । षष्ठ्यधिकानि चलच्चित्रगीतानि तया गीतानि। येशुदासः, एम्.जि.श्रीकुमारः, जि . वेणुगोपाल: इत्यादिभिः सह विविधासु  वेदिकासु सा गीतवती ।
मायामञ्जलिल् ...(ओट्टयाल् पट्टालं) देवसङ्गीतं...(गुरु) एन्टे उल्लुडुक्कुं.., निन्टेकण्णिल् .... ( दीपस्तम्भं महाश्चर्यम्‌) मञ्ञक्किलियुटे (कन्मदं) इत्यादीनि गीतानि श्रद्धेयानि । आकाशवाण्यां दूरदर्शने च ललित गीतानि गायति स्म। तत्र ए ग्रेड् आर्टिस्ट् आसीत् । दूरदर्शनादि विविधवाहिनीषु अवतारिका अपि आसीत् ।

भर्ता सुरेश: पुत्री देविका । गायिका सुजाता , गायकौ  पि. जयचन्द्रः, जि.वेणुगोपालः च अस्याः बान्धवाः।
तस्यै संस्कृतलोकस्य श्रद्धाञ्जलयः