OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, October 30, 2015


 उच्चतरशिक्षाक्षेत्रे आरक्षणम् अर्हताम् अतिवर्तते।

नवदेहली- उच्चतरविद्यालयेषु आरक्षणव्यवस्था अर्हताम् अतिवर्तते इति
सर्वोच्चन्यायालयेन कथितम् राष्ट्रहिते उच्चतरशिक्षाक्षेत्रे आरक्षणव्यवस्था अपाकरणीया  इत्यपि न्यायालयेन निर्दिष्टम्। केवलम् अर्हतायाः आधारे एव छात्राणाम् प्रवेशः करणीयः एतदर्थं केन्द्रशासनेन उचितकार्यक्रमः  स्वीकरणीयः। एतद्विषये 1988तमे वर्षे प्रस्तुतं विधेयकद्वयं न्यायमूर्तिभ्यां दीपक् मिश्र पि सि पन्थ् महोदयाभ्याम् उदाहृतम्। स्वास्थ्यसेवानां सम्यक्चालनाय अर्हतायाः आधारे एव प्रवेशः अनिवार्यः इति न्यायालयः निरैक्षत। वैद्यककलाशालानाम् अतिविशिष्ट विषयेषु प्रवेशमानदण्डं विरुध्य समर्पितासु याचिकासु वादश्रवणवेलायामेव न्यायालयेन एवम् अभिप्रेतम्। आन्ध्रप्रदेश- तेलङ्काना- तमिलनाडु राज्यस्थाः एव केचन याचिकामिमां दत्तवन्तः। अपि च राष्ट्रपतेः विशेषनिर्देशानुसारम् आन्ध्रप्रदेश तेलङ्काना राज्ययोः प्रवेशपद्धतौ अधुना न  किमपि कर्तुं शक्यते इति न्यायालयेन उक्तम्। तमिल् नाडु राज्यस्य प्रवेशविषयिणी याचिका नवम्बर् मासस्य चतुर्थदिनाङ्के संशोधयिष्यते। आन्ध्रतेलङ्कानराज्ययोरिव विशेषगणना परिहर्तव्या इत्यपि सर्वोच्चन्यायालयेन सूचितम्। 



उधंपुर् आक्रमणसूत्रधारः अबु खासिमः निहतः।
 श्रीनगरम् - उधमपुर आतङ्कवादि आक्रमणस्य सूत्रधारः तथा लष्कर् इ तोयिबा इति संस्थायाः नेता अबु खासिमः इति कुप्रसिद्धः अब्दुल् रह्मान् (28) सुरक्षासेनया निहतः।


सुवचनम् 
गहना कर्मणो गतिः ।
-
केरल ब्लास्टेर्स् दलस्य पराजयश्रृङ्खला - टेयलरस्य स्थानं विनष्टम्।
 कोच्ची - केरल ब्लास्टेर्स् इति पादकन्दुकदलस्य पराजयश्रृङ्खलायाः उत्तरदायित्वं स्वीकृत्य दलपरिशीलकः पीटर् टेयलर् स्वस्थानं त्यक्तवान्। अनुस्यूतानां चतस्राणां स्पर्धानां पराजयभारः तस्य स्थानत्यागाय कारणमभवत्। सहपरिशीलकः ट्रवर् मोर्गनः इतःपरं तत्स्थानमावहति।


इस्लामिकः व्यक्तिनियम: अपरिष्कृतः इति परमोन्नतन्यायपीठम् ...

नवदेहली - स्त्रीणां मौलिकाधिकारमपि हन्यमानः अधुनिकनियम: परिष्करणीयः । बहुभार्यात्वं तथा तलाख़ इति कथ्यमानं विवाह मोचनं च स्त्रीविरुद्ध एव इति न्यायपीठेन  निरीक्षितम्। न्यायाधीशाः ए आर् दावे, एके गोयल् इत्येतेषां गणः एव प्रधान न्यायाधीशस्य एच एल् दत्तु वर्यस्य पुरतः इमां अपेक्षां उक्तवन्तः ।
विवाहः दायाद्यञ्च धर्म सम्बन्धिनौ न । धर्मे अन्यनिष्कर्षोऽपि नास्ति । 1950 तमे वर्षे हिन्दु व्यक्ति नियमे कालोचिताः भेदाः कृताः। किन्तु मुस्लिम्नियम: अपरिवर्तित: एव। जावेद हरियाना राज्ययोः समस्यायां एव एवं उक्तम् ।


सुवचनम् 
  यत्र नार्यस्तु पूज्यन्ते रमन्ते तत्र देवताः ।