OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, October 31, 2015

देशीयपाठ्यपद्धत्यां संपूर्णं परिवर्तनं  न भवेत् ।

बेङ्गलूरु - केन्द्रसर्वकारेण निर्दिष्टे देशीयविद्याभ्यासनये संपूर्णं परिवर्तनं मास्तु इति केरलम् । नूतन विद्याभ्यासनयस्य प्राकृतं रूपं निर्मातुं केन्द्रसर्वकारेण बेङ्गलूरे आयोजिते दक्षिणभारतीयविद्याभ्याससचिवानां मेलने केरल शैक्षिक मन्त्रिणा अब्दुरब् वर्येण एव अयं निर्देशः प्रस्तुतः ।  कालानुसारी परिष्कारः, योजनानि च अवश्यम् आवश्यकम् । किन्तु तस्य पूर्णतया पुनर्निर्माणम् नैव भवेत् इत्येव केरलस्य मतम् । केन्द्र मानव विभवशेषि मन्त्री  आध्यक्षम् ऊढवती । केरलेषु विद्याभ्यासमण्डले मौलिकसौकर्याणि वर्धयितुं इतोऽपि धनराशिः देया इत्यपि  अब्दुरब्बेण उक्तम् । केरले विद्याभ्यास
-
मण्डले उत्तमानि प्रवर्तनानि जायन्ते। किन्तु मौलिक सौकर्याणि विपुलीकरणीयानि । केरलम् उन्नत विद्याभ्यासरङ्गे एव श्रद्धां कुर्वन्ति । तदर्थं अधिकं धनराशि: आवश्यकी । दरिद्र छात्राणां कृते छात्रवृत्तिदानाय  अपि सहाय्यम् आवश्यकम् । केन्द्र विश्वविद्यालयस्य मलपुरं केन्द्रे अधिक पाठ्यविषयाः आरम्भणीयाः इत्यपि तेन उक्तम् । विचारयाम: इति स्मृती इरानिना उक्तम् । नूतन विद्याभ्यासनयस्य प्राकृतं रूपं डिसम्बर् मासे पूर्णं भवति ततः राज्याणां अनुमत्यै दास्यते इत्यपि तया सूचितम् ।


केरले सप्तजनपदेषु परश्वः निर्वाचनं; प्रचारणम् अद्य समाप्यते।

अनन्तपुरी - केरलेषु त्रितलपञ्चायदादिनिर्वाचनस्य प्रथमपादं परश्वः(नवं-२) सप्तसु जिल्लासु प्रचलिष्यति। तत्रत्यानां प्रचारणम् अद्य सायं ५ वादने समापयिष्यति। तिरुवनन्तपुरम,कोल्लम, इटुक्की, कोषिक्कोट्, कण्णूर् , वयनाट्, कासरकोड् एतेषु जनपदेषु एव सोमवासरे निर्वाचनम्।