OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, November 2, 2015

तिहार् कारागारतः अनुवैद्यानां स्थानान्तरीकरणं
  - देहली सर्वकारस्योपरि विवादः।

नवदेहली- तिहार्  कारागारतः २६ अनुवैद्यानां स्थानान्तरीकरणे देहली सर्वकारः विवादे पतितः। कारागारे अपराधी कश्चन अपमाननं कर्तुम् उद्युक्तवानिति वैद्यायाः परिदेवनानुसारं सुरक्षां परिगणय्य अनुवैद्याः(नर्स् ) अपि स्थानान्तरिताः । किन्तु दक्षिण एष्यायां बृहत्तमे अस्मिन् कारागारे सुरक्षिताः न स्म: चेत् अन्यत्र कुत्र भवेम इति तासां समस्या। तस्मादेव स्थानान्तरनिर्देश: प्रतिनिवर्तनीयः इति ताः अभिप्रयन्ति। दीनदयाल इति आतुरालये एव ताः स्थानान्तरिताः। देहली आरोग्यविभागस्य मानवविभवविकसन विभागस्य नेता एव निर्देशं अदात्। स्थानान्तर निर्देश: प्रतिस्वीकरणीयः इति मुख्यमन्त्रिणे अरविन्द केज्रिवालाय दत्ते पत्रे अनुवैद्याः उक्तवत्यः। यस्मिन् सन्दर्भे सर्वत्र वनिता शाक्तीकरणमधिकृत्य चर्चाः जायन्ते। तस्मिन्नेव एतादृशी  प्रवृत्ति: वनितानाम् आत्मविश्वासं न्यूनीकरोति इति ताः अवदन्। स्थानान्तरं समस्यायाः परिहार: न आवश्यकसुरक्षादानमेव सर्वकारस्य दायित्वम् इत्येव ताः  पृच्छिन्त।
 
दक्षिण चिट्टूर् सेन्ट् मेरीस् माध्यमिकविद्यालये प्रधानमन्त्रिणः अभिनन्दनवर्षः।

 कोच्ची -दक्षिण चिट्टूर् सेन्ट् मेरीस् माध्यमिकविद्यालय: सर्वेभ्यः आदर्श: जात:। अवयवदानबोधवत्करण प्रवर्तने उन्नतादर्शभूतचिन्तां जनेषु उदपादयितुं सर्वे छात्राः स्वस्वाङ्गुलिमुद्रा: भारतराष्ट्रस्य भूरेखाचित्रे मुद्रणं कृत्वा इतरेषां मार्गदर्शकाः अभवन्। 
'मन् की  बात्' इति कार्यक्रमे माननीय: प्रधानमन्त्री श्री नरेन्द्र मोदीवर्यः विद्यालयप्रवर्तकानाम् अभिनन्दनमर्पितवान् ।



अद्य प्रथमः जनविधिः।

कोच्ची - केरलेषु त्रितलपञ्चायदादिनिर्वाचनस्य प्रथमपादं अद्य प्रचलति।तिरुवनन्तपुरं,कोल्लं , इटुक्की, कोषिक्कोट् , वयनाट्, कण्णूर् , कासरगोट् एतेषु जनपदेषु ३१,१६१ स्थानार्थिनः जनविधिम् इच्छन्ति।१.११कोटि सम्मतिदातारः प्रथमपादे सन्ति।प्रातः सप्तवादनादारभ्य सायं पञ्चवादनपर्यन्तं मतदानप्रक्रिया भविष्यति।
नियमसभानिर्वाचनस्य प्राक्परिशीलनमिति व्यवहार्यमाणे अस्मिन् निर्वाचने भरणपक्षेन यू डी एफ् दलेन , विपक्षदलेन एल्  डि एफ् पक्षेन च साकं भाजपा अपि स्वशक्तिं परीक्षते।

 सुवचनम् 
 अनतिक्रमणीया हि नियतिः ।