OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, December 2, 2015

सुरक्षितात्रा - राष्ट्राणां पट्टिकातः 
भारतं न त्यक्तवन्तः - रष्या 

मोस्को - सुरक्षितयात्रायुतराष्ट्राणां पट्टिकातः भारतं न त्यक्तवन्तः इति रष्या । भारतं गोवां च सुरक्षितविनोदसञ्चारकेन्द्राणां पट्टिकातः त्यक्तवन्तः इति वृत्तान्तानां आधारेण एव रष्या विशदीकरणं दत्तवन्तः ।

संस्कृतविश्वविद्यालस्य कीर्तिः अपाकर्तुं केचन प्रयतन्ते- उपकुलपति: ।
कोच्ची - कालटि श्री शङ्कराचार्य विश्वविद्यालयस्य अपकीर्तये  विश्वविद्यालयस्य अन्तः बहिः च केचन प्रयत्नं कुर्वन्ति इति उपकुलपति: डा. एम् सि दिलीप् कुमारः अवदत् । अत्र विद्यमाना: अध्येतार: ७०℅ अपि निर्धना: छात्रा: I एतेषां छात्रवृत्तिः विलम्बेन एव लभते। एम् फिल् पि एच् डि नेट्ट् परीक्षासु  विश्वविद्यालयस्य 90% छात्रा: अपि उत्तीर्णतां प्राप्नोतिI गतवर्षस्य उत्तम विश्वविद्यालयाय दीयमानः गवर्णेर्स् कप् पुरस्कारे  चतुर्थस्थानं प्राप्तं इत्‍येतत् श्रद्धेयः अंशः भवति ।

मार्गी सती दिवंगता।
चेरुतुरुत्ती - प्रसिद्धा कूटीयाट्टं तथा नङ्यार्कूत्त् कलाकारी मार्गी सती (50) अनन्तपुर्याम् आर् सि सि आतुरालये दिवंगता।अर्बुदरोगबाधिता आसीत्।
कूटियाट्टं,नङ्यार्कूत्त् इत्यनयोः कलारूपयोः प्रचारका सा ऐक्यराष्ट्रसभायाः आस्थानमन्दिरे तथा बहुषु विदेशराष्ट्रेषु च स्वस्य प्रतिभां प्रदर्श्य आस्वादकानां मुक्तकण्ठप्रशां प्राप्तवती। श्रीरामचरितम् इति नङ्यार्कूत्त् सतीवर्यायाः योगदानत्वेन विराजते।