OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, December 25, 2015

तिरुवैराणिक्कुलं देवीदर्शनमहोत्सवोद्घाटनम् अद्य।

कोच्ची - भारते दक्षिणकैलासः मङ्गल्यवरदायिनीमन्दिरम् इति च प्रख्याते तिरुवैराणिक्कुलं महादेवमन्दिरे अस्य संवत्सरस्य श्रीपार्वतीदेव्याः गर्भगृहस्य द्वारोद्घाटनं देवीदर्शनं च अद्य आरभते।श्रीपरमेश्वरः पार्वतीदेवी च एकस्मिन्नेव गर्भगृहे अनभिमुखं प्रतिष्ठितौ तथापि देवीदर्शनं प्रतिसंवत्सरं धनुमासस्य आतिरनक्षत्रादारभ्य द्वादशदिनपर्यन्तमेव साध्यमिति अस्य मन्दिरस्य सविशेषता। मङ्गल्यसौभाग्याय इष्टसन्तानलब्धये दीर्घमंगल्याय च देवीदर्शनं विशिष्टमिति भक्तजनाः मन्यन्ते।
केरले एरणाकुलं जिल्लायाम् आलुवा अंशे तिरुवैराणिक्कुलं प्रदेशे पूर्णानद्याः (पेरियार्) तीरे इदं मन्दिरं वर्तते। कोच्ची अन्तःराष्ट्रविमाननिलयः १० कि.मी दूरे अस्ति। आलुवा, अङ्कमाली , पेरुम्पावूर्  के एस् आर् टि सि बस्याननिस्थानेभ्यः सविशेषलोकयानसेवनानि च अस्मिन् काले लभ्यन्ते।