OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, December 20, 2015



अप्रौढापराधी मोचितः ; युवत्याः पितरौ आरक्षकरक्षणे।

नवदिल्ली - दिल्ल्यां संघटितबलात्कारविषये दण्डनविधेयः अप्राप्तव्ववहारः अपराधी कौमारसंरक्षणावासात् मोचितः सन् गूढस्थानं नीतः। सुरक्षाकारणेन स्थानं न व्यक्तीकृतम्। किन्तु सः न मोचनीयः  इत्याक्रोश्य प्रतिषेधं कृतवन्तौ युवत्याः पितरौ आरक्षकैः गृहीतौ।


देशीयविद्यालयीयकायिकमेला केरले ।

 कोच्ची - भारतस्य छात्राणां कायिकमेलां चालयितुं केरलं सन्नद्धमिति केन्द्रसर्वकाराय न्यवेदयत्। जनवरिमासस्य अन्तिमवारे कोष़िक्कोट् नगरं केन्द्रीकृत्य चालयितुं राज्यसर्वकारस्य निर्णय अभवत्।मेलाचालनाय केन्द्रसर्वकारात् आर्थिकसाहाय्यमपि अपेक्षितम्।सिद्धताम् अवलोकयितुं मंगलवासरे मन्त्रिणां नेतृत्वे कोष़िक्कोट् मध्ये प्रथमोपवेशनं भविष्यति।


मेट्रो रेल् योजनायाः  पट्टिका यानं 

जनवरी 2 दिने कोच्चीं प्राप्स्यते  

 श्रीसिट्टि- केन्द्रमन्त्रिणा वेङ्कय्य नायिटु महाभागेन केरलमन्त्रिणे आर्याटन् मुहम्मदाय श्री सिट्टि मध्ये यानपेटिकां दास्यते। तिस्रः पट्टिका पेटिकाः प्रथमतया दास्यते। तत् उपयुज्य फ़िब्रवरि मासे परीक्षण धावनं करिष्यते। श्री सिट्टिमध्ये विद्यमानाया: अल्स्तों संस्थायाः कर्मशालायां निर्माणं प्रचलन्नस्ति


सोणियायै राहुलाय च प्रतिभूतिः।
नवदिल्ली - नाषणल् हेराल्ड् विषये कोण्ग्रस् अध्यक्षायै सोणियागान्धी महाभागायै उपाध्यक्षाय राहुल्गान्धिमहाभागाय च दिल्ली पाट्याला हौस् न्यायालयेन निरुपाधिका  प्रतिभूतिः दत्ता।
सोणियागान्धिन्यै अग्रगण्यः कोण्ग्रस् नेता ए के आन्टणीवर्यः राहुल्गान्धिने प्रियङ्कागान्धी च दोषारोपितयोः दत्तवाक् दायिनौ अभूताम्। विषयः फेब्रुवरिमासस्य २० तमदिनाङ्के पुनः परिगण्यते।