OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, October 31, 2015

सम्प्रति वार्ताः प्रकाशनमारभ्य संप्रतियावत् मण्डलं सम्पूर्णम् (४१ दिनानि)
गोश्रीपुरम् (कोची) - केरले  संस्कृताध्यापकाः तेषां अन्तर्जालीय दिनपत्रिकायाः 41 तम प्रकाशितदिनस्य विजयम् आघुष्यन्ते।  भारतीयानां संस्कृताध्यापकनां धर्मयुक्तं शक्तं गम्भीरं स्वरं लोकेषु प्रसारयितुम्  इयं पत्रिका समर्था इति पत्रिकांप्रकाशयन् कथाकारः प्रमोद्  इळन्तिक्करा महाभागः अवदत्। भारतसर्वकारस्य सर्व-शिक्षा अभियानस्य अध्यापक-शाक्तीकरणयोगे प्रातः एव प्रकाशनम् असीत्। (चित्रम् - पेरुम्बावूर् योगस्य प्रकाशनवेला)
देशीयपाठ्यपद्धत्यां संपूर्णं परिवर्तनं  न भवेत् ।

बेङ्गलूरु - केन्द्रसर्वकारेण निर्दिष्टे देशीयविद्याभ्यासनये संपूर्णं परिवर्तनं मास्तु इति केरलम् । नूतन विद्याभ्यासनयस्य प्राकृतं रूपं निर्मातुं केन्द्रसर्वकारेण बेङ्गलूरे आयोजिते दक्षिणभारतीयविद्याभ्याससचिवानां मेलने केरल शैक्षिक मन्त्रिणा अब्दुरब् वर्येण एव अयं निर्देशः प्रस्तुतः ।  कालानुसारी परिष्कारः, योजनानि च अवश्यम् आवश्यकम् । किन्तु तस्य पूर्णतया पुनर्निर्माणम् नैव भवेत् इत्येव केरलस्य मतम् । केन्द्र मानव विभवशेषि मन्त्री  आध्यक्षम् ऊढवती । केरलेषु विद्याभ्यासमण्डले मौलिकसौकर्याणि वर्धयितुं इतोऽपि धनराशिः देया इत्यपि  अब्दुरब्बेण उक्तम् । केरले विद्याभ्यास
-
मण्डले उत्तमानि प्रवर्तनानि जायन्ते। किन्तु मौलिक सौकर्याणि विपुलीकरणीयानि । केरलम् उन्नत विद्याभ्यासरङ्गे एव श्रद्धां कुर्वन्ति । तदर्थं अधिकं धनराशि: आवश्यकी । दरिद्र छात्राणां कृते छात्रवृत्तिदानाय  अपि सहाय्यम् आवश्यकम् । केन्द्र विश्वविद्यालयस्य मलपुरं केन्द्रे अधिक पाठ्यविषयाः आरम्भणीयाः इत्यपि तेन उक्तम् । विचारयाम: इति स्मृती इरानिना उक्तम् । नूतन विद्याभ्यासनयस्य प्राकृतं रूपं डिसम्बर् मासे पूर्णं भवति ततः राज्याणां अनुमत्यै दास्यते इत्यपि तया सूचितम् ।


केरले सप्तजनपदेषु परश्वः निर्वाचनं; प्रचारणम् अद्य समाप्यते।

अनन्तपुरी - केरलेषु त्रितलपञ्चायदादिनिर्वाचनस्य प्रथमपादं परश्वः(नवं-२) सप्तसु जिल्लासु प्रचलिष्यति। तत्रत्यानां प्रचारणम् अद्य सायं ५ वादने समापयिष्यति। तिरुवनन्तपुरम,कोल्लम, इटुक्की, कोषिक्कोट्, कण्णूर् , वयनाट्, कासरकोड् एतेषु जनपदेषु एव सोमवासरे निर्वाचनम्।

Friday, October 30, 2015

 गुप्तमतदानस्य गोप्यता रक्षणीया 
इति 'सम्प्रति वार्ताः।
 
कोच्चि - त्रितल पञ्चायत - प्रादेशिक भरणस्थानानां सद्यः सम्पत्स्यमानेषु निर्वाचनेषु निर्वाचनप्रक्रियानिर्वाहार्थं नियुक्ताः अधिकारिणः स्वकीयनिर्वाचनक्षेत्रेषु मतदानं कर्तुम् अशक्ताः पत्रालयद्वारा स्वमतदानपत्रिकाः प्रेषयन्ति। प्रत्येकस्मिन् जानपदीयमतदानकेन्द्रे द्वित्राः एव पत्रालयीयमतदातारः स्युः। एवञ्चेत् मतगणनावेलायां ते कस्मै मतदानम् अकुर्वन् इति ज्ञातुं शक्यते एवञ्च मतदानस्य गोपनीयता नष्टा भवेत् एतत्परिहाराय उचितं कार्यं कर्तुं सम्प्रति वार्ताः निर्वाचनायोगं न्यवेदयत। सप्तम्बर् मासस्य षोडशदिनाङ्के केरलेभ्यः प्रारब्धा अन्तर्जालीय संस्कृतवार्तापत्रिका भवति सम्प्रति वार्ताः www.samprativartah.in इत्येतस्मिन् अन्तर्जालसङ्केते पत्रिकेय्ं लभ्यते । 
Posted At 17:02:35 IST

संस्कृतशिक्षणं आधुनिकतङ्कनिक्याः
 योजनेन भविष्यति सुग्राह्यम्

भोपाल् - सामान्य रूपेण संस्कृतशिक्षणे व्याकरणस्य दुरूहतायाः कारणेन काठिन्यमनुभूयते| इदानीं राष्ट्रिय-संस्कृत-संस्थानेन एकं संगणकीयं मृदूपागमं निर्मितम्|  संथानस्य शोधकर्ता मनमोहनशर्मा इदं संगणककार्यक्रमं निर्मितवान् | जनाः कार्यक्रमेणानेन सारल्येन संस्कृतसंभाषणं संस्कृतव्याकरणम् अधिगन्तुं शक्नुवन्ति |एनीमेशन माध्यमेन कार्यक्रमे सुरुचिपूर्णता समायोजिता|
-
 इदं कार्यक्रमं दशमीतः द्वादशीकक्षापर्यन्तानां छात्राणां  कृते निर्मितमस्ति | कार्यक्रमस्य व्यावहारिकताया: परिक्षणे छात्राणां निष्पादने वृद्धिः अभवत् | इदं कार्यक्रमं सोफ़्ट्वेयर रूपेण अन्तर्जाले अपि प्रसारितं भविष्यति | शोधकार्यस्यास्य निदेशकः डा नीलाभ तिवारी अनुसारेण इदं कार्यक्रमं प्रत्ययप्रयोगयुक्तं, देशे अद्वितीयमस्ति|



 लोकाराध्येषु १० नेतृषु गान्धिजीमोदिनौ। 

 
-
जनीवा - लोके आराध्यमानेषु राष्ट्रनेतृषु प्रथमेषु दशस्थानेषु द्वौ भारतीयौ अन्तर्भूतौ।भारतस्य राष्ट्रपिता महात्मा गान्धिः
इदानींतनप्रधानमन्त्री नरेन्द्र मोदी च तौ श्रेष्ठपुरुषौ। वेल्ड् इकणोमिक् फारं इत्यनया संस्थया कृते समग्रवीक्षणे गान्धिजी चतुर्थस्थानं मोदीवर्यः दशमस्थानं च अलङ्कुर्वतः।प्रथमस्थाने दक्षिणाफ्रिकन् स्वातन्त्र्यसमरनायकः नेल्सन् मण्डेलावर्यः विराजते।

 उच्चतरशिक्षाक्षेत्रे आरक्षणम् अर्हताम् अतिवर्तते।

नवदेहली- उच्चतरविद्यालयेषु आरक्षणव्यवस्था अर्हताम् अतिवर्तते इति
सर्वोच्चन्यायालयेन कथितम् राष्ट्रहिते उच्चतरशिक्षाक्षेत्रे आरक्षणव्यवस्था अपाकरणीया  इत्यपि न्यायालयेन निर्दिष्टम्। केवलम् अर्हतायाः आधारे एव छात्राणाम् प्रवेशः करणीयः एतदर्थं केन्द्रशासनेन उचितकार्यक्रमः  स्वीकरणीयः। एतद्विषये 1988तमे वर्षे प्रस्तुतं विधेयकद्वयं न्यायमूर्तिभ्यां दीपक् मिश्र पि सि पन्थ् महोदयाभ्याम् उदाहृतम्। स्वास्थ्यसेवानां सम्यक्चालनाय अर्हतायाः आधारे एव प्रवेशः अनिवार्यः इति न्यायालयः निरैक्षत। वैद्यककलाशालानाम् अतिविशिष्ट विषयेषु प्रवेशमानदण्डं विरुध्य समर्पितासु याचिकासु वादश्रवणवेलायामेव न्यायालयेन एवम् अभिप्रेतम्। आन्ध्रप्रदेश- तेलङ्काना- तमिलनाडु राज्यस्थाः एव केचन याचिकामिमां दत्तवन्तः। अपि च राष्ट्रपतेः विशेषनिर्देशानुसारम् आन्ध्रप्रदेश तेलङ्काना राज्ययोः प्रवेशपद्धतौ अधुना न  किमपि कर्तुं शक्यते इति न्यायालयेन उक्तम्। तमिल् नाडु राज्यस्य प्रवेशविषयिणी याचिका नवम्बर् मासस्य चतुर्थदिनाङ्के संशोधयिष्यते। आन्ध्रतेलङ्कानराज्ययोरिव विशेषगणना परिहर्तव्या इत्यपि सर्वोच्चन्यायालयेन सूचितम्। 



उधंपुर् आक्रमणसूत्रधारः अबु खासिमः निहतः।
 श्रीनगरम् - उधमपुर आतङ्कवादि आक्रमणस्य सूत्रधारः तथा लष्कर् इ तोयिबा इति संस्थायाः नेता अबु खासिमः इति कुप्रसिद्धः अब्दुल् रह्मान् (28) सुरक्षासेनया निहतः।


सुवचनम् 
गहना कर्मणो गतिः ।
-
केरल ब्लास्टेर्स् दलस्य पराजयश्रृङ्खला - टेयलरस्य स्थानं विनष्टम्।
 कोच्ची - केरल ब्लास्टेर्स् इति पादकन्दुकदलस्य पराजयश्रृङ्खलायाः उत्तरदायित्वं स्वीकृत्य दलपरिशीलकः पीटर् टेयलर् स्वस्थानं त्यक्तवान्। अनुस्यूतानां चतस्राणां स्पर्धानां पराजयभारः तस्य स्थानत्यागाय कारणमभवत्। सहपरिशीलकः ट्रवर् मोर्गनः इतःपरं तत्स्थानमावहति।


इस्लामिकः व्यक्तिनियम: अपरिष्कृतः इति परमोन्नतन्यायपीठम् ...

नवदेहली - स्त्रीणां मौलिकाधिकारमपि हन्यमानः अधुनिकनियम: परिष्करणीयः । बहुभार्यात्वं तथा तलाख़ इति कथ्यमानं विवाह मोचनं च स्त्रीविरुद्ध एव इति न्यायपीठेन  निरीक्षितम्। न्यायाधीशाः ए आर् दावे, एके गोयल् इत्येतेषां गणः एव प्रधान न्यायाधीशस्य एच एल् दत्तु वर्यस्य पुरतः इमां अपेक्षां उक्तवन्तः ।
विवाहः दायाद्यञ्च धर्म सम्बन्धिनौ न । धर्मे अन्यनिष्कर्षोऽपि नास्ति । 1950 तमे वर्षे हिन्दु व्यक्ति नियमे कालोचिताः भेदाः कृताः। किन्तु मुस्लिम्नियम: अपरिवर्तित: एव। जावेद हरियाना राज्ययोः समस्यायां एव एवं उक्तम् ।


सुवचनम् 
  यत्र नार्यस्तु पूज्यन्ते रमन्ते तत्र देवताः ।

Thursday, October 29, 2015



कश्मीराक्रमणाय  पाकिस्तानेन आतङ्कवादिनः प्रचोदिता: - मुषारफ़:
 
लाहोर: १९९० वर्षेषु कश्मीराक्रमणाय  पाकिस्तानेन  लष्कर् इ - तोयिबा इत्यादि आतङ्कवादिनः प्रचोदिता: इति पाकिस्थानस्य भूतपूर्वराष्ट्रपतिना परवेस् मुषारफ़ेण प्रकाशितम् । १९९० तमे कश्मीरे यदा स्पर्धाः आरब्धाः तदा १२  आतङ्क सङ्घटनानि जातानि । तेभ्यः अस्माभि: परिशीलनम् दत्तम्  इति तेन सूचितम् । तस्मिन् समये लष्कर् नेतारः हफीस सैद्, साकिरूल नखवी इत्यादयः नायकाः आसन् । किन्तु ते इदानीं स्वराष्ट्रं विरुध्य कर्म कुर्वन्ति । तस्य नियन्त्रणम् अवश्यं करणीयम् । सोवियट् शक्तीनां विरोधाय एव एते वर्धिताः बहव: नायकाः अधुना खलाः सञ्जाताः ।


  नेपाल देशस्य प्रथमा प्रथमवनिता 
'बिध्यादेवी भण्डारी'


 कठ्मण्डु- नेपाल देशस्य प्रथमा प्रथमवनिताराष्ट्रपतित्‍वेन बिध्या देवी भण्डारी निर्वाचिता । शासकीयदलस्य सि पि एन् – यू एम् एल् इत्यस्य उपाध्यक्षा आसीत् एषा । नेपाली काण्ग्रस् दळस्य आदिष्टप्रतिनिधि: आसीत् कुल्बहादूर् दुरुङ्वर्य: ।  अनया बिध्या देव्या सःपराजितः। निर्वाचनस्य फलं प्रवक्ता ओन् सारी घर्टी मगर् महोदयेन पार्लमेन्ट् नाम सभायां उद्घुष्टः। भुवत्पूर्वप्रतिरोधमन्त्री बिध्यादेवी दिवंगतस्य कम्यूणिस्ट् नेतु: मदनभण्डारी महोदयस्य सहधर्मचारिणी भवति । दुरुहे यानदुर्घटनायां 1991 तमे वर्षे एव भण्डारी मृत:। कान्सर् रोगान्मुक्ता बिध्यादेवी नेपाळस्य द्वितीया राष्ट्रपति: एव। इतः पूर्वं राम् बारण्यादवः राष्ट्रपतेः पदवीं अलङ्कृत: आसीत्।



तद्देशस्वयंभरणनिर्वाचनदिनेषु सार्वजनिकः विरामः।

अनन्तपुरी - केरलेषु तद्देशनिर्वाचनम् अनुबन्ध्य तत्तत्प्रान्तीयपञ्चायदादिस्वस्वशासनसमितीनां कृते निर्वाचने जायमाने तत्तत्प्रदेशेषु तद्दिनेषु सार्वत्रिकः विरामः प्रख्यापितः। तिरुवनन्तपुरं ,कोल्लं, इटुक्की, कोषिक्कोट्, वयनाट्, कण्णूर् , कासरकोट्, एतेषु जनपदेषु सर्वेषां सर्वकार- अर्धसर्वकार- वाणिज्यस्थापनानां नवम्बर् द्वितीये दिनाङ्के विरामः भविष्यति। पत्तनंतिट्टा, आलप्पुषा, कोट्टयम्, एरणाकुलं ,तृशिवपेरूर्, पालक्काट्, मलप्पुरम् इत्येतेषु जनपदेषु पञ्चमे दिनाङ्के च विरामः।
 

Wednesday, October 28, 2015

 अफगानिस्ताने भारतस्य प्रभावं निवारयितुं
 तालिबानस्य उपयोगः कृतः

वाषिङ्टन्-  अफगानिस्ताने भारतस्य प्रभावं निवारयितुं तालिबानिति भीकर सङ्घटनायाः उपयोगः कृतः इति प्रकाशितम्। सि ऐ. ऐ. निदेशकस्य जोण्  ब्रन्नस्य नैज ई पत्रेभ्यः(E-mail) स्वीकृताः एताः सूचना: " वीक्लीस " इत्यत्र एव प्रकाशिताः ।
अफ्गानिस्तान-पाकिस्तानयोःदेशयोर्विषयमधिकृत्य
कृतव्यवहारं अमेरिकादेशस्य इरानं प्रति संमुखीकरणनीतिं चाधिकृत्य वीक्लीस् अन्तर्जालद्वारा  प्रकाशितम्। यु एस् राष्ट्रपतित्व स्थानं प्राप्य केवलं दिनत्रयानन्तरं २००८ नवम्बर् सप्तमे एव तेन अफगानिस्ताने भारतस्य निरोधनाय तालिबानस्य साहाय्यं स्वीकृतम् इति पत्रे लिखितम् । सः यु .एस् . विदेशव्यवहारसंमुखीकरणनीतेः प्रमुखः ओबामा वर्यस्य
भीकरवादरोधनविभागस्य उपदेशकः अपि आसीत् ।



 नेप्पाले अद्य राष्ट्रपतिनिर्वाचनम् ।


काट्मण्टु- नेप्पालदेशे राष्ट्रपतिनिर्वाचनं बुधवासरे प्रचलिष्यति । गतमासे आविष्कृतं नवीनं शासननियमावलिमनुसृत्य इदानींतनराष्ट्रपतिः स्थानं त्यजति।

Monday, October 26, 2015

 उत्तरभारते पाकिस्ताने च शक्तम् भूचलनम्,  मृताः 200

दिल्ली - उत्तरभारते पाकिस्ताने च शक्तम् भूकम्पनम् जातम् । रिक्टर् स्केल्
पकिस्थानतः
मध्ये सप्ताधिका: अङ्काः अङ्किताः। उत्तर पाकिस्ताने स्वात् अधित्यकायां 14 जनाः मृतवन्तः इति डोन् न्यूस् मध्ये कथयति । मृतेषु षड्बालाः अपि सन्ति ।


प्रकम्पनम् एकनिमेषात् अधिकं कालं यावत् आसीत् । भारते देहली ,पञ्जाबः ,हरियाना ,हिमाचलप्रदेश : कश्मीरम् इत्यादिषु राज्येषु कम्पनम् जातम् । अफ्गानिस्ताने हिन्द् कुष् मेखला एव भूकम्पस्य प्रभवकेन्द्रम् इति सूचना । जनाः कार्यालयेभ्यः गृहेभ्य: च सम्भ्रान्ताः जनाः बहिः
काश्मीर्
धावन्ति स्म । श्रीनगरे दूरवाणीत्यादि विनिमय सूत्राणि विच्छिन्नानि । भारते जनापायः वा नाश नष्टो वा न सूचितम् । भूकम्पनस्य नाशनष्टानाम् अवलोकनाय निर्देश: दत्तः इति प्रधानमन्त्रिणा नरेन्द्र मोदि वर्येण उक्तम् । किमपि सन्दर्भं सम्मुखीकर्तुं सिद्धाः इति तेन ट्विट्टर माध्यमेन स्पष्टीकृतम्

भूचलनकारणात् अवसितः मेट्रो रयिल् गतागत: पुनरारब्ध:
सौदी नज्रानायां मुस्लिम देवालये स्फोटनम् त्रयः मृताः समयं


 तुलामासीय महावर्षाः अस्मिन् सप्ताहे  प्राप्स्यति।

अनन्तपुरी - उत्तरपूर्वदिशतः आगमिष्यमाणायाः तुलामासीय महावर्षाः अस्मिन् वारे प्राप्स्यतीति वातावरण निरीक्षणकेन्द्रम्। कालवृष्टेः प्रतीक्षां कृतवतां केरलजनानाम् इयं वार्ताः आश्वासदायकी ।  कालवर्षस्य न्यूनतया कृषकाः आशङ्कमाना: आसन्।  २८तम दिनाङ्कानन्तरम् अनुकूलसन्दर्भः  भविष्यतीति निरीक्षणकेन्द्रस्य निगमनम्।

सोनपुरमेलायां गजविक्रयणाय निरोधनं - केरलव्यापारिणां धननष्टः।


-
सोनपुरं - लोकप्रशस्तायां सोनपुरं पशुविपण्यां गजविक्रयं पूर्णतया निरोद्धुं बीहारसर्वकारस्य निश्चयः। गजान् क्रेतुं कोटिशः रुप्यकाणि दत्तवन्तः केरलीयाः आशङ्काकुलाः अभवन्। बीहारे वैशालीजिल्लायां छप्रासमीपे भवति सोनपुरं गजेन्द्रमोक्षमन्दिरम्। तत्र प्रतिवर्षं वृश्चिकमासे देवालयोत्सवमनुबन्ध्य पशुविपणिः आयोज्यते। अस्याः भागो भवति गजमेला। किन्तु वन्यजीविनां संरक्षणार्थं प्रवर्तमानानां संस्थानां परिश्रमफलं भवति गजानां क्रय-विक्रयनिरोधः ।


'ऐ.एस्. शत्रू वर्धस्व'
इराक् युद्धम्  IS अनुकूलो जातः -टोणी ब्लयरः

वाशिङ्टण् -  इराक् युद्धकाले स्वीकृते निश्चये त्रुटिरजायत। इस्लामिक् स्टेट् (IS) दलस्य  जन्मकारणमपि  अनेन निश्चयेन जातः इति ब्रिट्टणस्य प्रधानमन्त्री टोणीब्लयरेन उक्तः। टोणीब्लयर् महोदयस्य मुखात् इराक युद्धमुद्दिश्य इदं प्रथमतया एव एतादृश परामर्शः इति श्रद्धेयः अंशः। अमेरिका ब्रिट्टन् च मिलित्वा 2003 तमे सद्दाम् हुसैनं विरुद्ध्य कृतेन आक्रमणेन ऐ एस् भीकरतायै बीजावाप: अभूत् इति टोणी ब्लयरः अवदत्। अनेन  सद्दामं स्थानभ्रष्टं कृतवत्भ्यः इतानींतन अवस्थान्तरस्य उत्तरदायित्वम् अस्ति इति तेन स्वयं विमर्शः कृतः। CNN माध्य्माय दत्ते साक्षात्कारे  एव एतस्य आत्मविमर्शः।

Sunday, October 25, 2015

निर्माणमण्डलश्रमिकेभ्यः भविष्यनिधिः।

नवदिल्ली - देशे निर्माणमण्डले विद्यमानेभ्यः श्रमिकेभ्य अपि भविष्यनिधि व्यवस्थायाः (P.F)आनुकूल्यं  लप्स्यते। सामाजिक-स्वकीयमेखलासु प्रवर्तमानाः कर्मकराः एवास्य गुणभोक्तारः। अस्य प्रमाणपत्रं केन्द्रकर्मविभागमन्त्रालयात् बहिरानीतम्।


अमरावती आन्ध्राराजधानी ।
गुण्टूर् - आन्ध्राराज्यस्य नवीना राजधानी अमरावतीनाम्ना व्यवहरिष्य़ते।अस्याः शिलास्थापनं प्रधानमन्त्रिणा नरेन्द्रमोदिना गुण्टूरजनपदे कृष्णानदीतीरे कृतम्।



Sunday, October 18, 2015

पम्पायां वस्त्रत्यागः दण्डनार्हः -उच्चन्यायालयः।

कोच्ची- ये शबरिमलतीर्थाटकाः वस्त्राणि त्यक्त्वा पम्पानदीं मलिनीकुर्वन्ति ते मलिनीकरण नियन्त्रणनियममनुसृत्य सार्धसंवत्सरपर्यन्तं कारागृहवासदण्डम् अर्हन्तीति केरल उच्चन्यायालयेनोक्तम्। पम्पायां वस्त्रत्यागः आचारविरुद्धः। किन्तु लक्षशः भक्ताः स्वमेधया गुरुस्वामिनः उपदेशेन वा तेषां श्यामवस्त्राणि नद्यां त्यजन्ति। अयं प्रवृत्तिः जलाशयस्य परिस्थितेः च मलिनीकरणाय नाशाय च भविष्यति। एतत् राज्यजलनियमस्य २४ तम विभागस्य लंघनमित्यतः  ४३ तम विभागमनुसृत्य सार्धसंवत्सरादारभ्य षट्संवत्सरपर्यन्तं कारागृहवासदण्डमर्हतीति नियमज्ञः तोट्टत्तिल् बि राधाकृष्णः नियमज्ञा अनुशिवरामश्च मिलित्वा विद्यमानेन डिविषन् बञ्च् इत्यनेन विहितम्। प्रस्तुत अपराधः दण्डनार्ह इत्यतः तीर्थाटकानां कृते व्यापकप्रचार कार्यः।



  • बिहारे समीक्षायै निर्वाचनायुक्ताः पटनापथे।
  • राजकोटेऽद्यान्तर्जालप्रतिबन्धः।
  • नेपालस्योपप्रधानमन्त्री भारतमागतः।
  • डेनमार्केऽन्त्यस्पर्धायां पीवीसिन्धोरद्य द्वन्द्वः

Saturday, October 17, 2015

आधार् - अधिकमेखलासु
 
वदिल्ली - विविधाः निवृत्तवेतनपद्धतयः, ग्रामीण कर्मनिर्णयपद्धतिः, प्रधानमन्त्रिणः जनधनयोजना एंप्लोयीस् प्रोविडन्ड फन्ट् निवृत्तवेतनं इत्येषामपि आधारसंख्या  बाधका भवितुमर्हतीति सर्वोच्चन्यायालयः केन्द्र सर्वकारं निरदिशत्।आधार पद्धतिः पौरस्य स्वकार्यतां प्रति प्रवेशनमिति आरोपणमधिकृत्य निर्णेतुं विषयोय़ं भरणघटनासमित्यै प्रेषितः।


कलामस्य जन्मस्थानम् इतःपरम् अमृतनगरम्।

नवदिल्ली - भूतपूर्वस्य भारत राष्ट्रपतेः यशःशरीरस्य ए पि जे अब्दुल् कलामस्य जन्मदेशः रामेश्वरः केन्द्रसर्वकारस्य अमृतं पद्धतौ अन्तर्भूत इति केन्द्रमन्त्रिणा वेङ्कय्य नायिडुना उक्तम्। गतदिने डि आर् डि ओ मद्ध्ये प्रचलिते कलामस्य ८४ तमे जन्मदिनाघोषे एवं प्रख्यापनं जातम्। रामेश्वरे कलामवर्याय स्मारकनिर्माणमपि परिगण्यते।

Friday, October 16, 2015

 अद्य लोक भक्ष्यदिनम् 

F B
1945ओक्तोबर 16 दिनाङ्के लोक भक्ष्य कार्षिक संस्थापनस्य स्मरणायामेव लोके सर्वत्र दिनमाचर्यते दारिद्र्य निर्मार्जनाय अवबोधं जनयितुं सार्धैकशताधिक राष्ट्रेषु दिनमिदं समाचरते

अन्नात् भूतानि जायन्ते जातानि अन्नेन वर्धन्ते
अद्यातेत्ति च भूतानि तस्मादन्नं तदुच्यते   (तैत्तरीयोपनिषद् )

आहारात् सर्व भूतानि संभवन्ति महीपते
आहारेण विवर्धन्ते तेन जीवन्ति जन्तवः   (महाभारतम्) 
 -रसना संस्कृत मासिका 




साङ्केतिकविद्यानां साहाय्येन लष्कर् इ तोयिबा सशक्तं भवति ।

नव देहली आधुनिक साङ्केतिकविद्यानां साहाय्येन  पाक् आङ्कवाद सङ्घटना लष्कर् इ तोयिबा सशक्तं भवति इति वृत्तम् I जङ्गम दूर वाणी सन्देशानां रहस्य स्वभावं संरक्षितुं नूतन साङ्केतिकविद्याः तेषां शिबिरेषु उपयुज्यन्ते इति निर्णीतम्। ऐ .एन .ए. साङ्केतिक विभाग: अधिकम् अन्वेषणम् आरब्धवन्तः।
भारतसीमनि भीकराक्रमणं लक्षीकृत्य पाक चार सङ्घटना ऐ. एस् . ए लष्कर् इ तोयिबां पुनरुज्जीवयितुं श्रमं करोति इति पूर्वं वृत्तम् आसीत्
 
उद्वंपुरतः गृहीतस्य पाकभीकरस्य मुहम्मद नवेदस्य आपृच्छा वेलायाम् एव एतत् स्पष्टं जातम्


बीहारः - द्वितीयपादनिर्वाचनम्  अद्य।

पाट्ना - बीहारे नियमसभा निर्वाचनस्य द्वितीयपादे ३२ मण्डलेषु अद्य निर्वाचनं प्रचलति।४५६ स्थानार्थिनः जनहितं इच्छन्ति। मावोवादिभ्यः भीत्या अतीवसुरक्षाव्यवस्था  अस्ति।
  
संघर्षस्य शान्तिरूपः परिहारः आवश्यकः - भारतराष्ट्रपतिः ।

जरुसलें - इस्रायेल-पलस्तीन देशयोः दीर्घकालीयानां तर्काणां संघर्षाणां च शान्तयेे अवधानतया परिहारः आवश्यकःइति भारतराष्ट्रपतिः  प्रणब् मुखर्जी निरदिशत्।नेसट्  नामिकां इस्रयेललोकसभाम् अभिसंबोधनं कृतवानासीत् राष्ट्रपतिः।अक्रमः यस्यकस्यापि परि हा रो नास्ति।सर्वे अक्रमाः अपलपनीयाः।प्रणब्मुखर्जी उदधोषयत्।
 
विभवांशः दरिद्र्येभ्यः निश्चेतव्यः - भारतम्।

लोकविभवानां नीतियुक्तमंशं दरिद्रजनविभागेभ्य़ः दातुं निर्णय करणीयः इति भारतेन ऐक्य़राष्ट्रसभायां निर्दिष्टः।लोके सर्वत्र १०० कोट्यधिकं जनाः अतिदारिद्र्ये वर्तन्ते। ८० कोट्यधिकाः न्यूनातिन्यूनं पोषणघटकमलभ्यमानाः जीवन्ति।औषधमलभ्यमानाः १५०कोटिपरिमिताः स्युः।संवत्सरं प्रति १८०लक्षं मरणानि दारिद्र्यसंबद्धानि भवन्ति लोके।यू.एन् सभायाः दारिद्र्यनिर्मार्जनसम्मेलने भारतं प्रतिनिधीभूय अमित् नराङ् वर्यः प्रभाषणमकरोत्।

अनुकरणीयः कः ?
छात्राणां मनसि अद्यापि जीवति ए .पी.जे अब्दुल् कलामः।
 "हृदये हृदये विलसति भवतः स्नेहमयी वाणी"।
अभारतं विद्यालयेषु अब्दुल् कलां महोदयस्य जन्मदिनोत्सवः आचरितः।
बहुभिः कार्यक्रमैः अद्यतन विद्यालय कार्यक्रमाः संपुष्टाः आसन् ।
महाराष्ट्रायां विद्यालय स्यूत:अद्य  विद्यालये न आनीता:। प्रभाषण चित्ररचना पोस्तर निर्माणादय स्पर्धाः अपि आयोजिता:।


कोचि - केरलदेशे सेन्ट् मेरीस् यू पी विद्यालये (तेवरा, कोचि ) छात्रैः संस्कृतभाषया निर्मितः पोस्ट्र् कार्ड्।  

Thursday, October 15, 2015

संम्प्रति वार्ता:

जम्मूकश्मीरे प्रतिसंघर्षे आतंकिनौ मृतौ
न्यायालयेन स्पेक्ट्रम–आवंटनप्रकरणे श्यामलघोषाय विमुक्तिःप्रदत्ता
जहीरस्य अन्ताराष्ट्रियक्रिकेटस्पर्धातः मुक्त्याः घोषणा

  ए पी जे अब्दुल् कलामस्य जन्म दिनम् 


 स्वप्न दर्शनाय प्रचोदितः भारतस्य भुवत् पूर्व प्रथम पुरुषः
 डा. ए पी जे अब्दुल् कलाम् महोदयस्य जन्मदिनम्


-

भूभ्रंशेन ग्वाट्टिमालायां मृतानां सङ्ख्या 280

ग्वाट्टिमाला- अति वृष्ट्या भूभ्रंशेन  ग्वाट्टिमालायां मृतानां सङ्ख्या 280 अभवन् अस्यां  दुर्खटनायां 400 जनाः अदृष्टाः अस्य  मासस्य द्वितीये दिने सान्ता कातरिना पिनुल नाम नगरे मृदः बृहत् आकारकाणि  शिला खण्डानि च शैलात् अधः पतितानि वृक्षादयः पतिताः बहवः कुटुम्बाः मृद्पाषाणखण्डयोः अधः भूत्वा मृताः द्वादश दिनानि यावत् रक्षाप्रवर्तनानि कृत्वा अद्यैव निवृत:
Photo.janmabhumi


 एकीकृतपौरनियमसंहितामधिकृत्य सर्वोच्चनीतिपीठश्च।

नव दिल्ली - राष्ट्रे विद्यमानाः विविधाः व्यक्तिनियमाः आशयसंभ्रमं जनयन्ति इत्यतःएकीकृतपौरनियमसंहितायाः आविष्कारमधिकृत्य सर्वकारस्य मतं किमिति सर्वोच्चन्यायालयः । अस्मिन् विषये केन्द्रसर्वकारस्य मनोभावं ज्ञापयितुं सोलिसिटर् जनरल् प्रति विक्रमजितसेनः, एस् के सिंहः इतेतयोः न्यायाधिपयोः संघः निरदिशत्।
क्रैस्तवदम्पत्योः विवाहमोचनाय वर्षद्वयं प्रतिक्ष्यमाणमस्ति। किन्तु इतरधर्मेषु वर्षमेकं पर्याप्तम्। अस्मिन् वैरुध्यात्मके विषये समवायव्यवस्थां कल्पयितुं सर्वकारः त्रिभिः मासेभ्यः पूर्वं प्रतिज्ञां करोति स्म।


 तद्देशनिर्वाचनं - १.५ लक्षं पत्रिकाः समर्पिताः।

अनन्त पुरी - केरलेषु तद्देश स्वयंभरणस्थापननिर्वाचने  नामनिर्देशपत्रिकासमर्पणस्य अन्तिमे दिने-अद्य- आहत्य सार्धैकलक्षं पत्रिकाः समर्पिताः। तासां सूक्ष्मपरिशोधना श्वः भविष्यति। पत्रिकासमर्पणाय वरणाधिकारिणां पुरतः महान् सम्मर्दः आसीत्। कोण्ग्रस्(ऐ) नेतृत्वे यु डि एफ् दलं, सि पि एम् नेतृत्वे एल् डि एफ् दलम् च मुख्य प्रतियोगिनौ। भाजपा दलंच स्वशक्तिं परीक्षितुं रणाङकणे वर्तते।

 इस्र्यल् देशे भारतस्य राष्ट्रपतये प्रणब् मुखर्जी वर्याय उज्वलं स्वीकरणम् 
 इस्र्येल् - दिन त्रयस्य सन्दर्शनाय इस्रयेल् प्राप्तस्य राष्ट्रपतये प्रणब्मुखर्जी वर्याय उज्वलं स्वीकरणम् पालस्तीन् सन्दर्शनस्यानन्दरमेव अनेन इस्रयेल् प्राप्तम् इस्रयेल् राष्ट्रपतिः रूवन् रिव्लिन् , प्रधामन्त्री बोचिन् नेतन्याहू इत्यादिभिः सह अपि सः संभाषणं करिष्यति
    भारत इस्रयेल् बन्धे सुशक्ते सति प्रणब् वर्यस्य संदर्शनं अतीव प्राधान्येन एव लोकः पश्यति राष्ट्रपतेः सन्दर्शनम् ऐतिहासिकमिति इस्रयेल् राष्ट्रपतिना रूवन् रिव्लिन् महाशयेन उक्तम् 
    संपत्तिक-कार्षिक-शास्त्रादि विविधमेखलासु विद्यमानं बन्धं सुदृम् कर्तुं इदं संदर्शनम् उपकरोति इति तेन उक्तम्। जरुसलें हीब्रु विश्वविद्यालयेन प्रणाबाय डोक्टरेट् बिरुद: दास्यते

Wednesday, October 14, 2015

ब्रह्मपुत्रायां चीनायाः विद्युन्निलयः- भारतस्य आशङ्का ।
 
बीजिङ्- टिबट् मद्ध्ये ब्रह्मपुत्रानद्यां चीनया निर्मितः जलविद्युन्निलय़ः प्रवर्तनमारब्धः।भारते जलदौर्लभ्यं स्यादित्यतः भारतम् आशङ्कां प्राकटयत्। यतःभारतीयाः जललाभाय ब्रह्मपुत्रामेवाश्रयन्ति । तथा च लोके बृहत्सु विद्युन्निलयेषु अन्यतमं भवत्येषः। २.५ बिल्यण् किलोवाट्स् परिमितं विद्युच्छक्तिः तत्रोत्पाद्यते। एतदर्थं सेतुं निर्माय जलसंभरणं भारते जलक्षामाय भविष्यति इत्याशङ्का।

 

 पलस्तीन राष्ट्रे भारत मार्गः तथा भारत परिमार्ग: च

रमल्ला- इस्रयेल् पलस्तीन राष्ट्रयोः मिथः सङ्घर्षे मूर्धन्ये सति पलस्तीन प्राप्तस्य भारत राष्ट्रपतेः प्रणब मुखर्जी वर्यस्य ऐतिहासिक सन्दर्शनस्य स्मरणार्थमेव रमल्लायां प्रमुख मार्गाय शारि अ अल् हिन्द् (Indian Road) तथा परिमार्गाय मैतान् अल् हिन्द्‌ (Indian Roundabout) इति नामकरणं कृतम् ।  तत्र भारतस्य देशीय पुष्पस्य कमलस्य शिल्पोऽपि स्थापितः । नामकरण वेलायां प्रणबवर्येण सह पलस्तीन राष्ट्रपतिः महमूद अब्बासः अपि भागं स्वीकृतवान् । दिवङ्गतस्य पलस्तीन विमोचन नेतुः यासर अराफतस्य कबरस्थाने राष्ट्रपतिः पुष्प चक्रं स्थापितवान् ।
 


परिस्थिति नियमलङ्घनाय 20 कोटि रूप्यकाणां दण्डः  जीवनपर्यन्तं कारागृह वासं च।

नवदिल्ली - : परिस्थिति नियमं  प्रबलं कृत्वा सर्वकारस्य प्राथमिक निदेशपत्रिका(BILL) प्रकाशिता एतस्योपरि स्वाभिमतानि प्रकटी कर्तुं दिनद्वयस्य अवकाशः अस्ति। शिलोद्खनन नियत्रणमपि अनया पत्रिकया उद्दिश्यते पञ्च किलो मात्रा (kilometer ) परिधौ परिस्थितेः नाशं क्रियते चेत् 5 कोटि रु आरभ्य 10 कोटि पर्यन्तं दण्डः निश्चितः, 10 किलो मात्रातः उपरि चेत् 20 कोटि रूप्यकाणि एव पुनर्विचारणाय 75% शुल्क रूपेण दातव्यानि 1986 तः एतावत् परिस्थिति नियम: बलीयते ।

 भारत चीनायोः संयुक्त सैनिकअभ्यासः
बैजिङ् भारत चीनायोः दशदिनसंयुक्त सैनिकअभ्यासः चीनायां यूनान् प्रविश्यायाम् आरब्धः 
भारत चीनायोः संयुक्त सैनिकअभ्यासः
  
मोदी एकस्प्रेस्स् गच्छति  अनवरतम्



Sunday, October 11, 2015


 उत्तमौ प्रातिवेशिकौ भवावः इति पाकिस्तानः।

लाहोर् - समस्याः समवायेन परिहृत्य सुहृदौ प्रातिवेशिकौ इव भवितुमिच्छतीति पाकिस्तानस्य प्रधानमन्त्री नवास् षरीफः अवदत्।काश्मीरविषयं प्रति यू एन् संस्थायां सौहृदचर्चया परिहाराय सन्नद्धो भवति इति ,तत्र तदधिकृत्य चत्वारि समवाक्यानि समर्पितानि इति च तेनोक्तम्।

 तुर्क्यां शान्तिसञ्चनमध्ये विस्फोटनं-८६ मरणानि।
अङ्कारा - तुर्कीराजस्थाने अङ्कारे कुर्दिष् धर्मानुकूलदलेन HDP दलेन कृते शान्तिसञ्चने संजाते बोम्बस्फोटनद्वये ८६ जनाः हताः।१८६ आहताः।नगरे रेल् याननिस्थानस्य समीपे एव स्फोटने संजाते।स्फोटनात् परं सञ्चलनम् उपेक्षितम् ।स्फोटनकारणं न विज्ञातम्
 
दिल्ल्यां महती गजदन्तमृगया।
 अनन्तपुरी - पूर्वदिल्ल्यां विजयनगरे महती हस्तिदन्तमृगया संवृत्ता। ७००किलोमितस्य दन्तिदन्ताः कस्माच्चन शून्यात् गृहात् वनपालकैः ग्रहीताः।हस्तिदन्तव्यापारिणः उमेष् अगर्वालस्य ऋतोक्तिमनुसृत्य वनपालकाः त्वरितपरिशोधनाम् अकुर्वन्।अनन्तपुरीविमानपत्तने दन्तव्यापारी ईगिल् राजः गृहीतः अभवत् इति दन्तमृगयायाः कारणमभूत्
-

•बिहारे प्रथमचरणात्मकमतदानाय अद्यान्तिमः प्रचारदिवसः

•समझौतारेलयानं भारतेन प्रतिरुद्धमिति पाकदुश्प्रचारः विखण्डितः

•पुरुषहाकीनिकषे भारतेन न्यूजीलैण्डं पराजितम्


वयलार् पुरस्कारः सुभाष् चन्द्राय।

अनन्तपुरी - वयलार् रामवर्मा साहित्यपुरस्कारः सुभाष् चन्द्रस्य " मनुष्यन् ओरु आमुखं" (मानवाय किमपि आमुखम्) इति आख्यायिकायै ( Novel) लभते।पत्रप्रवर्तकः अयं साहित्यकारः मातृभूमि दिनपत्रिकायाः कोषिक्कोट् मणडले मुख्योपसम्पादकरूपेण (Chief sub editor) कार्यं करोति।अस्य प्रथमा आख्यायिका भवति पुरस्कारार्हा एषा।२०११ तमे वर्षे केरल साहित्य अकेडमी पुरस्कारः,२०१४-तमे वर्षे केन्द्र साहित्य अकेडमी पुरस्कारश्च अस्यै आख्यायिकायै लब्धा ।
कथापात्रसृष्टौ आख्यानशैल्यां च सविशेषतामावहति इयमाख्यायिकेति पुरस्कारनिर्णयसमितेः अद्ध्यक्षेन प्रोफ. एम् के सानुना वार्ताहरसम्मेलने उक्तम्।

 बीहारः-निर्वाचनस्य प्रथमश्रेणी श्वः। 
 

पाट्ना - बीहारराज्ये नियमसभानिर्वाचनस्य प्रथमश्रेणीनिर्वाचनं श्वः भविष्यति।२४३ अङ्गेषु ४९ सामाजिकानां निर्वाचनं श्वः। आहत्य ५ श्रेण्यः सन्ति। अन्तिमश्रेणीनिर्वाचनं नवं-८ दिने परिसमाप्यते।
-
भा ज पा दलेस्य  नेतृत्वे एन् डि ए सख्यं , जनतादल् युणैटड् दलस्य नेतृत्वे विशालसख्यश्च रणाङ्गणे वर्तते ।

 गसट् विज्ञापनानि इतः परम् विद्युद्जालद्वारा
विज्ञापनाय इतः परम् अधिक दिनानां प्रतीक्षा न करणीया । केन्द्र सर्वकारस्य विज्ञापनानि इतः परम् इ-गसट् द्वारा लभ्यन्ते । http://www.egazette.nic.in इति सङ्केते एव इतः परं विज्ञापनानि लभ्यन्ते । सर्वेऽपि पौराः ततः गसट् विज्ञापनानि नि:श्शुल्कं  स्वीकर्तुम् अर्हन्ति । २००० तमवर्षस्य सूचना साङ्केतिक नियममनुसृत्य इ- गसट् तः स्वीकृतानां विज्ञापनानां नियमसाधुता अस्तीति सर्वकारेण उद्घोषितम् ।
इ-गसट् आगमनेन प्रतिवर्षं 40 कोटि व्ययकारणीभूतस्य १० टन् कागदानां लाभः भविष्यतीत्येव सर्वकारस्य सङ्कल्पः।  मुख्यानां विज्ञापनानां दीर्घकालिकी प्रतीक्षा अपि अनेन अन्त्यमेष्यति । प्रधानमन्त्रिणः स्वप्न पद्धतेः "डिजिट्टल्‌ इन्ट्या " इत्यस्य भागत्वेन एव इ-गसट् रूपीकृतम् ।
 सुजा हरिदास्


"लसति संस्कृतं चिरं"
संस्कृत प्रचरणं कुवैत देशे  

कुवैत्- अस्मिन् देशे संस्कृतभाषायाः भारतसंस्कृत्याः प्रचाराय प्रतिबद्धा अस्ति। समये समये संस्कृतसंभाषण-शिबिराणां योजना एतया क्रियते। अस्यां शृङ्खलायां सितम्बर मासस्य ११ तः २० पर्यन्तं कुवैत् देशस्य रिग्गे साल्मिया स्थानयोः दशदिनात्मकं संभाषणसंस्कृतशिबिरस्य आयोजनम् अनया कृतम्। अस्मिन् शिबिरे संस्कृतभारती-जी.सी.सी. संयोजकः श्री.बालसुब्रमण्यन् आगत्य सम्पूर्णशिबिरस्य सञ्चालनं सम्यक् कृतवान्। स्थानाद्वये बहवः जनाः शिबिरे भागधेयं कृत्वा समीचीनरीत्या संस्कृतम् अधीतवन्तः।

पुनः अस्मिन् मासे एव २२ तः  
२७ पर्यन्तं शिक्षकप्रशिक्षणशिबिरस्य सञ्चालनम् अनेन महोदयेन उत्तमरूपेण कृतम्। अस्मिन् शिबिरे २० छात्राः सम्यक् अभ्यासं कृत्वा पाठनकौशलं प्राप्तवन्तः।
अनन्तरं अक्तूबर मासस्य प्रथमदिवसे विश्वसंस्कृतदिनस्य समायोजनं अनया कृतम्। एतत् उत्सवः भारतीय विद्याभवनस्य सभागारे समायोजितम्। कार्यक्रमे संस्कृतभारती-जी.सी.सी. संयोजकः  
-
श्री बालसुब्रमण्यन् महोदयः,सेवदर्शनम् कुवैत् संस्थायाः मुख्य सचिव: श्री संजुराज महोदयः,भारतीय विद्याभवनम् कुवैत् प्रान्तस्य प्राचार्यः श्री.टी.प्रेमकुमार महोदयः, संस्कृतभारती-कुवैत् संयोजकः श्री.गोपकुमार महोदयः आगत्य मञ्चम् अलंकृतवन्तः। प्रथमं अब्बासिया, साल्मिया, रिग्गे आदीभ्यः स्थानेभ्यः आगतवन्तः छात्रगणाः संस्कृतभाषायां रोचकं सांस्कृतिककार्यक्रमं दर्शकेभ्यः प्रदर्शितवन्तः। श्री.गोपकुमार महोदयः स्वागतभाषणं कृतवान्। तदनन्तरं श्री.टी.प्रेमकुमार महोदयः दीपप्रज्वालनेन कार्यक्रमस्य शुभारम्भः कृतः। अस्मिन् अवसरे श्री.बालसुब्रमण्यन् महोदयः संस्कृतसंदेशः दत्तवान्, श्री.प्रेमकुमार महोदयः, श्री. संजुराज महोदयः संस्कृतविषये भाषणं कृतवन्तः। श्री जी. के. रामकृष्ण महोदयः, कुवैत् राज्यस्य प्रमुखा स्त्रीरोगशास्त्रवैद्या श्रीमति. सरिता. पी, श्री. शशिधरन् अम्मा कुवैत् , कर्य्क्रेमे आसन् | तदनन्तरं महोदयैः छात्रेभ्यः प्रमाणपत्राणि वितरितानि।

Thursday, October 8, 2015

अशेकवाजपेयी च पुरस्कारं प्रत्यर्पयति।


नव दिल्ली - साहित्यकारीं नयनताराम् अनुगम्य भूतपूर्व ललितकला अकादमी अध्यक्षः तथा कविः अशोक वाजपेयी च स्वस्य अकादमी पुरस्कारं प्रत्यर्पितवान्। वर्गीयछिद्रशक्तिं प्रति प्रधानमन्त्रिणः मौनं निस्संगतां च विरुध्य एव तस्य ईदृशः प्रतिषेधः।

जम्मूकश्मीरविधानसभायां गौमांसभोजनविषये कोलाहलं।
भारतअफ्रीकायाः तृतीय–टी२०–क्रिकेट्द्वन्द्वः अद्य कोलकातायां।
करचौर्यनिवारणार्थं मानकनिर्धारणं भवेत्–जेटली।

•देशे पुनस्त्रीणि आयुर्विज्ञान-संस्थानानि
•शारदा-लघुनिवेश-प्रवञ्चनासु मनोरमा सिंहः धृता
•गुलाम-अलिनः संगीत-गोष्ठी निरस्ता
•अद्यान्तिमः २०-२०-क्रिकेट-द्वन्द्वः