OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, January 11, 2016

 आत्मानं सृजाम्यहम्

अद्य जनुवरि  12 युवदिनम्।
सनातनधर्मस्य संरक्षणाय काले काले अत्र भारते पुण्यजन्मनि बहूनि अभवन्। तेषु अन्यतमं भवति विवेकानन्दस्वामिनः जन्म। सः 1863 जनुवरि मासस्य 12 दिने कोलकत्तायां जनिम् अलभत। तस्य पिता विश्वनाथदत्तः माता भुवनेश्वरी देवी च आस्ताम् । नरेन्द्रस्य व्यक्तित्व विकासे तस्य पितरौ अतीव स्वाधीनम् अकुरुताम्। बाल्यकाले एव ईश्वरचिन्तायां तथा आत्मीय चिन्तायां प्रवृत्तः नरेन्द्रः पश्चात् भारतीयतत्वशास्त्रचिन्तकेषु प्रमुखं स्थानं प्राप्य लोकराष्ट्रेषु प्रसिद्धः अविस्मरणीयश्च बभूव।

स्वामिविवेकानन्दस्य शैक्षिक प्रणाली भारतस्य दार्शनिक आध्यात्मिक परमपरायाः अनुरूपा आसीत्। विद्याध्ययनेनैव सर्वेषाम् अभ्युदयः इति सः प्रत्यपादयत्। परिपूर्णतायाः व्यक्तता एव ज्ञानोपार्जनेन संभवति। अध्ययनं नाम केवलं विषयसंग्रहः अपि तु तेन देशस्य कृते किं लभ्येत तदेव प्रामुख्यम् । तस्य मते अध्ययनं नाम अर्न्तनिहित पूर्णतायाः अभिव्यक्तिरेव ।

मातृभाषया साकं संस्कृतभाषयाः शिक्षणमपि आवश्यकमिति विवेकानन्दस्य मतम्। अस्माकं धर्मग्रन्थस्थानि आध्यात्मिक -रहस्य-रत्नानि अन्विष्य संस्कृतभाषया तत् ज्ञानस्य बहिरानयनं करणीयम्। स्त्रीणां कृते विद्यादानम् अवश्यं करणीयम् इति च तस्य मतम्। एवं विद्या सर्वजनस्पर्शिनी स्यात् इति विवेकानन्दः वदति। स्वामि विवेकानन्दः 1897 तमे वर्षे रामकृष्णमिशन् इति एकं सेवास्थानं स्थापितवान्। भारतेस्य विविधेषु प्रदेशेषु एवं विदेशेषु च अस्य संस्थानस्य शाखाः उद्धाटिताः आसन् सम्प्रति च वर्तन्ते।

महापुरुषाः अल्पमेव कालं जीवन्ति इत्यस्ति अनुभवः । तस्यापि सैव। भारतसर्वकारः तस्य जन्मदिनं युवदिनत्वेन आचरन् वर्तते। कस्यापि महतः स्मरणं तस्यजन्मदिनाचरणसीमितं न भवेत्। तेन ज्वलितानाम् आदर्शानां परिपूरणम् अस्माकं दायित्वमेव। संस्कृत-संवर्धनमेव अस्माकं धर्मः। तदर्थं दिनस्यैतस्य प्रेरणां प्राप्नुयाम।
उत्तिष्टत! जाग्रत ! 
डा. के. श्यामळा  
रसना कोषीक्कोड्