OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, February 29, 2016

 मुसिरिस् पैतृकपद्धत्याः शुभारम्भः।
भारतचरित्रं परस्परादरस्य - राष्ट्रपतिः। 

कोटुङ्ङल्लूर्> भारतचरितं विभिन्नमतधर्मयुक्तानां परस्परादरस्य स्वांशीकरणस्य च योगदानमिति राष्ट्रपतिना  प्रणाबमुखर्जी महाभागेन उक्तम्। मुसिरिस् पैतृकपद्धत्याः प्रथमसोपानस्य उद्घाटनवेलायां भाषमाणः आसीत् राष्ट्रपतिः၊ विभिन्न धर्म समुदाय भाषागताः जनाः परस्परमैत्र्या  सह अनुवर्तन्त इति भारतस्य पारम्पर्यम् । एतादृशपारम्पर्ये केरलम् आदर्शभूतमिति सः अवोचत्। मुसिरिस् नामकेन पुरातनकवाटेन देशान्तरेभ्यः विविधाः संस्कृतयः वंशाः नानाविधानि मतानि च भारतं प्राप्तानि । भारतं तानि सर्वाणि स्वीकृत्य तेषां संरक्षणाय अभिवृद्धये च व्यवस्थाम् अकरोत्।

ममापि श्वः परीक्षा - मोडी
नवदिल्ली > 'श्वः लोकसभायां आयोज्यमाना केन्द्रधनविनिमयपद्धतिः १२५ कोटि जनानां पुरतः लेख्यमाना मदीया परीक्षा' इति प्रधानमन्त्रिणा मोदिवर्येण उक्तम्। शान्ततया आत्मविश्वासेन सह परीक्षाम् अभिमुखीकृत्य विजयं प्राप्नोमि इति आकाशवाण्याः 'मन की बात' इति प्रतिमासकार्यक्रमे भाषमाणः आसीत् सः।
परीक्षायाः कृते प्रयत्नं कुर्वाभ्यः छात्रेभ्यः उपदेशं च दत्तवान्। स्पर्धा अन्यैःसह मास्तु , आत्मानं प्रति भवतु । अन्येषां सम्मर्दे पतित्वा जीवनं व्यर्थं मा कुरुत। सर्वे विजयिनः भूयासुः इति आशंसा च उक्तम्। सि.एन्. आर्.रावु, सच्चिन् तेण्डुल्कर् विश्वनाथ आनन्दः प्रभृतीनां उपदेशाः च स्मारिताः ।
प्रथमतया लक्ष्य निर्णयः करणीयः। तदनन्तरं सम्मर्दान् विस्मृत्य मनसः मुक्तिः प्राप्तव्या। परीक्षा लब्धाङ्केनैव जीवनं मीयमानं न भवेत्। किमपि वा भवतु, लक्ष्यात्‌ न प्रमदितव्यम्। श्वः अनुवर्तिष्यमाणायां  धनविनिमय पद्धत्यां अहमपि विजयी भवेयम् इति च उक्तम्  अनेन महात्मना।

वायुमलिनीकरणम्; मरणसड़्ख्या अतीता।

वाषिङ्टण् >वायुमलिनीकरणेन प्रतिवर्षम् आगोलतले 5.5 दशलक्षाधिकाः जनाः मृताः। तेषु 55%जनाःभारतीयाः भवन्ति इति  गवेषकैः सूचितः। 

आगामि दशकद्वयानां वर्षाणां मध्ये वायुमलिनीकरणं नियन्त्रणविधेयः भवितव्यम् । नोचेत् मलिनीकरणेन मरणसंख्या इतोप्यधिकं भविष्यति इति गवेषकैः सूच्यन्ते। भारतं, चैना, यु एस्, कानडा आदीनां राष्ट्राणां  गवेषकाः अनुसन्धाने भागभाजः अभवन्।
वाषिड़्टण् नगरे अमेरिकन् असोसियेषन् फोर् अट्वान्स्-मेन्ट् ओफ् सयन्स्स्य वार्षिकमेलनवेलायां गवेषकैः सूचनानि प्रकाशितानि। आगोलतले परिस्थिति-मलिनीकरणे  चतुर्थस्थानं भवति भारतस्य वायुमलिनीकरणाय। 

व्यवसायशालाभ्यः, यानेभ्यः जायमानया वातकप्रसारणेन परिस्थितिः मलिनं भविष्यति । किन्तु भारते पचनार्थम् इन्धनोपयोगेन मलिनीकरणं भविष्यति। चैनाराष्ट्रे तु शिला- इन्धनानां(Charcoal) उपयोगेन वायुः प्रदूष्यते। 
मालिन्यानि नियन्त्रणविधेयानि भवेयुः I नो चेत्‌ इतोप्यधिकं  दुष्फलानि भविष्यन्ति इति गवेषकाः।

मासत्रयाभ्यन्तरेण शतं किलोमितं रक्तफलम्।

एरणाकुलम् > रक्तफलमेव  षैलजायाः वटिकायाः तारम् । गृहवाटिकायां मासत्रयेण शतंकिलोमितं रक्तफलं  अनया गृहण्या उत्पाद्यते । चेरायी माडत्तिड़्कल् षैलजा राजेशस्य शाकोद्यानं मुनंबं ग्रामस्य मातृकाशाकोद्यनमेव। जैवोर्वरकमुपयुज्य गृहस्योपरि, शकोद्यानं निर्मितम्।  न केवलं रक्तफलं किन्तु कारवेलम्, भेण्डः, गृजानकं,  कोलीफ्लवर्, आद्रकम्, सूरणः आदीनां अपि च विविधानां मरिचानां शेखरः चअत्र दृष्टुं शक्यते। जैवोर्वरकेन निर्मितानां शाकानाम् उपयोगेन मनसि सन्तोषः जायते इति षैलजा वदन्ति । 2014 तमे, 15 तमे च वर्षे उत्तमकृषकपुरस्कारदानेन आद्रिता भवति षैलजा।

इतिवर्ताः

नवदिल्ली -  राष्ट्रे गतैकवर्षाभ्यन्तरे २००० कोटिरूप्यकाणां व्याजमुद्रितरुप्यकाणि प्राप्ता इति भारतीय रिसर्व् बान्क्।१००० रूप्यकाणां चीका एव प्राप्ताः। अतः 2AQ,  8AC धारावाहिकसंख्यानां चीकाः न विनिमययोग्याः इति आरक्षकवित्तकोषाधिकृतैः आदिष्टम्।


अनन्तपुरं - भारतराज्यसभायां केरलात् जायमानेषु त्रिषु रिक्तस्थानेषु एकैके स्थाने कोण्ग्रस् दलं जनतादलं(यू) सिपिएम् दलं च स्पर्धिष्यते।

कोच्ची - ट्राफिक् इति एकेनैव चलच्चित्रेण मलयालचलच्चित्रमण्डलस्य दिशानिर्णयं कृतवान् प्रसिद्धः निदेशकः राजेष् पिल्लै दिवंगतः। यकृत्संबन्धरोगेण कोच्ची आतुरालये आसीत्तस्यान्त्यः।

कार् यानदुर्घटना - केरलमुख्यमन्त्री कटिपट्टया सुरक्षितः।
कोट्टयम् >गतदिने प्रभाते केरलमुख्यमन्त्रिणः उम्मन् चाण्टि महोदयस्य कार् यानं कोट्टयं नगरसमीपे काणक्कारि प्रदेशे विनष्टनियन्त्रणेन कुल्याम् अपतत्। मुख्यमन्त्री आसनकटिपट्टम् अधारयत् इत्यतः व्रणितो नाभवत्। किन्तु तस्य सुरक्षाभटस्य हस्तःभग्नः जातः । कार्  यानमपि  विशीर्णम् मुख्यमन्त्री यानान्तरं स्वीकृत्य कोट्टयम् अतिथिमन्दिरं गत्वा ततः पुतुप्पल्लीस्थं स्वगृगं गतवान्। आसनकटिपट्टधारणमेव आत्मानं आहतं विना सुरक्षितं कृतमिति उम्मन् चाण्टिवर्यः वार्ताहरान् अवदत्।