OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, March 10, 2016

यु.ए.इ राष्ट्रे अतिवृष्टिः

दुबाय् > वर्षाकालस्य जलसमृद्धिमुत्पादयन् यू.ए.इ राष्ट्रेषु सर्वत्र वृष्टिः। अबुदाबि, दुबाय्,षार्ज नगरेषु विद्युल्लतया सह पतितः वृष्टिः महान् क्लेशः उत्पद्यत। प्रवाहः स्तगितः इत्यनेन यानानां गमनागमनः स्तंभितः। प्रातः पञ्चवादनात् पूर्वं वृष्टिरारब्धा। अत एव कार्यालयेषु विद्यालयेषु च गन्तुं जनाः क्लेशिताः



अपराधिनाम् अवगूहनं निरोद्धुं बीहार् सर्वकारः ।


पट्ना - राज्ये संसद्सामाजिकसहिताः प्रजाः अपराधं कृत्वा अवगूहनप्रवणतां निरोद्धुं तादृशानां द्रव्याणि स्वायत्तीकर्तुं नितीष् मार्  सर्वकारस्य निश्चयः फलप्राप्तिमधिगच्छति । सप्ताहद्वयाभ्यन्तरे १२ अधिकानां निष्ठुरापराधिनां कोटिशः रूप्यकाणां सम्पदः सर्वकाराधीनतां प्राप्ताः ।
नवाड् मण्डलात् सामाजिकः राबरीदेवीमन्त्रिसभायां भूतपूर्वमन्त्री च राजवल्लभः यादवः एव अन्तिमत्वेन क्रियाविधिविधेयः जातः । अपराधिनः कियन्तः प्रमुखाः भवन्तु परिरक्षा न भवन्ति इति सन्देशं दातुं नितीष् वर्यस्य सर्वकारः प्राप्तः अभवत् ।अतः संघटितापराधाश्च न्यूनीकृता इति सर्वकारवृत्तैः उक्तम् ।

भारतं विरुद्ध्य पाक् स्थानीय भीकरदलानाम् आक्रमणः वर्धितः।

नवदिल्ली> भारतं विरुद्‌ध्य पाकिस्थाने विद्यमानानां भीकर-दलानाम् आक्रमणः वर्धितः इति भारत सर्वकारः। एता दृशान् सङ्घान् निरोद्धुं  यू.एन् प्रति न्य वेदयिष्यते इति विदेशकार्य सहमन्त्रि: विके सिंहः लोकसभायाम् अवदत्‌। पाक् भीकरप्रमुखाः हाफिस् सय्यिद्, सक्कियूर् रह्मान् लख्वी प्रभृतीनां नाम उद्‌धृत्य विशदतयाआसीत् भाषणम् ।

मेत्रान् तटाक-कटमक्कुटि विवादादेशौ प्रतिनिवर्तितौ।

अनन्तपुरी>कोट्टयं जिल्लायां मेत्रान् तटाकं एरणाकुलं जिल्लायां कटमक्कुटी व्रीहीकेदारं च मृत्तिकया पूरयितुम् अनुमतिं दीयमानौ केरलसर्वकारस्य आदेशौ प्रतिनिवर्तितौ। निर्वाचने समीपमागते आदेशौ विवादाय कारणीभूतौ इत्यतः एव निराकरणस्य आधार इति मुख्यमन्त्रिणा उक्तम् ।

केरले नूतनं राजनैतिकदलं रूपवत्कृतम्।

कोच्ची > केरले जनाधिपत्यकेरलाकोण्ग्रस् इति नाम्नि नूतनं राष्ट्रियदलं रूपवत्कृतम् ।के एम् माणि वर्यस्य केरलकोण्ग्रस् --एम् दलात् बहिरागतवन्तः विमतनेतारः अस्य दलस्य रूपवत्करणे भागभागित्वं कृतवन्तः । फ्रान्सिस् जोर्ज् वर्यः अध्यक्षः भविष्यति । दलस्य रूपवत्करणसम्मेलने डो. के सि जोसफः, अड्व. आन्टणि राजुः, पि सि जोसफः इत्यादयः नेतार अपि सन्निहिताः आसन् ।