OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, March 7, 2016

१० भीकराः भारते । महती जाग्रता ।

नवदिल्ली>पाकिस्तानात् १० भीकराः भारतं प्राप्ताः इति गुप्तान्वेषणसूचनामनुसृत्य गुजरात् राज्ये दिल्यां च महान् जाग्रतानिर्देशः कृतः ।
  लष्कर् ई तोय्बा , जय्षे मुहम्मद् भीकराः कच् प्रविश्याद्वारा गुजरात् राज्यं ततः दिल्लीं च प्रविष्टाः इति सूचनां पाकिस्तानस्य सुरक्षोपदेष्टा निवृत्तः लफ्. जनरल्  नसीर् खान् जनूजावर्य एव भारतस्य देशीयसुरक्षोपदेष्टारं अजित् डोवलं प्रति विज्ञापितवान् । कच्च् प्रदेशे कोटेश्वरसमुद्रतीरे उपेक्षिता कापि नौका तीर सुरक्षासैन्यस्य दृष्टिमागता आसीत्। भारते शिवरात्र्याघोषस्य कालः इत्यतः प्राक्सूचना अतीव गौरवं सम्पद्यते ।

कलाभवन् मणिः दिवंगतः।

कोच्ची> केरळस्य सुप्रसिद्धः चलच्चित्रनटः कलाभवन् मणिः ( ४५) कोच्चीनगरस्थे आतुरालये दिवंगतः। यकृत्संबन्धरोगस्य चिकित्सायामासीत्।
हास्यनटरूपेण आरभ्य स्वभावनटः नायकः इत्यादिवेषैः अभिवृद्धिं प्राप्य प्रतिनायकवेषपर्यन्तं ह्रस्वकालेन मलयालं विना तमिल् तेलुगू भाषाचित्रेषु अपि सः स्वनटनकौशलं प्रादर्शयत् । ग्रामीणगीतकानि स्वकीयशैल्या अवतार्य सार्वजनीनं कर्तुं तस्य अनन्यसाधारणं पाटवमासीत्।
कलाभवन् मणिवर्यस्य आकस्मिकमरणं कैरळीचलच्चित्रलोकस्य महान् नष्टः भवति।