OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, March 5, 2016

सर्वशिक्षा अभियानस्यश्रेष्ठोत्सवस्य समारम्भः

अनन्तपुरी >सर्वशिक्षा अभियानस्य केरळराज्यस्तरीय श्रोष्ठोत्सवस्य अद्य  शुभारम्भः। अनन्तपुर्याम्  एस्.एम्.वि उच्चतर-विद्यालये केरळराज्यस्य शिक्षामन्त्रिणा अब्दुरब् महोदयेन उत्सवोfयम् उद्‌घाटितः। उत्सवेfस्मिन् डा.ए सम्पत्त् (MP)वर्यः मुख्यभाषणं कृतवान्। आरोग्य-देवस्वं विभागयोः मन्त्रिणा शिवकुमारेण अध्यक्षभाषणं कृतम्। केरळस्य सार्वजनिक विद्यालयानां श्रेष्ठतायाः प्रदर्शनमेव दिनद्वय कार्यक्रमेषु मुख्यतमम्। एतदर्थं सज्जीकृते वेदिकाचतुष्टये छात्राणां वैशिष्ट्यप्रदर्शनानि प्रचलन्ति। इतर विद्यालयापेक्षया सार्वजनिक-विद्यालयेषु औत्कृष्ट्यम् अधिकमस्ति इति उत्सवोfयं प्रमाणम्।



निर्वाचनकाहलम् अध्वनत्।

दिल्ली > भारते चतुर्षु राज्येषु एकस्मिन् केन्द्रशासनप्रदेशेषु च जनविधेः दिनाङ्काः प्रख्यापिताः । केरलं तमिल् नाट् पश्चिमबंगाल् आसाम् इत्येतेषु राज्येषु पोण्टिच्चेरि केन्द्रशासनप्रदेशे च ८२५ मण्डलेषु निर्वाचनं भविष्यति । असमराज्ये एप्रिल् ४, ११ दिनाङ्कयोः सोपानद्वयेन निर्वाचनं भविष्यति ।बंगालराज्ये एप्रिल् ४ आरभ्य मेय् ५ पर्यन्तं सोपानषट्केन ,केरले मेय् १६ दिनाङ्के एकेनैव सोपानेन च निर्वाचनं भविष्यति ।

  विद्यालयेषु २२० अध्ययनदिनानि निश्चयेन भावितव्यानि उच्चन्यायालयः।

कोच्ची > केरले विद्यालयेषु आगामि अध्ययनवर्षादारभ्य २२०  साध्यायदिनानि लभ्यमानानि भवितव्यानि इति केरल उच्चन्यायालयेन आदिष्टम्।
केरलस्य शैक्षिकव्यवस्थायां तथा केन्द्रीय विद्याभ्यासाधिकारनियमे च निष्कर्षा अस्ति। तदनुसृत्य आगामी वर्षादारभ्य  मेला - मूल्यनिर्णयादिषु क्रमीकरणम् आवश्यकमिति  न्यायाधीशेन विनोदचन्द्रेण आदिष्टम्।