OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, April 2, 2016

विद्यालयेषु सहस्रहोराणाम् अध्ययनं ध्रुवं करिष्यति।

केरळेषु सामान्यकक्ष्या
अनन्तपुरी > आगामी अध्यनवर्षादारभ्य केरलानां विद्यालयेषु १००० होराणाम् अध्ययनं ध्रुवं कर्तुं सार्वजनीनशिक्षानिर्देशिकायाः एम् एस् जयायाः नेतृत्वे सम्पन्ने अधिकृतानां मेलने निश्चितम् । प्रादेशिकविरामेण कर्मप्रतिबन्धे वा अनध्ययनं भविष्यति चेत् तत्परिहर्तुं प्रधानाध्यापकेन व्यवस्था स्वीकरणीया।
  विद्यालयेषु आगामिनि अध्ययनवर्षे २२० साध्यायदिनानि भवितव्यानि इति शिक्षाधिकारनियममुद्धृत्य उच्चन्यायालयेन आदिष्टमासीत् । प्रथमकक्ष्यायाः आरभ्य पञ्ममकक्ष्यापर्यन्तं ८०० होराः ६ - ८ कक्ष्यासु १००० होराश्च अध्येतव्याः। एतदर्थं २०० साध्यायदिनानि पर्याप्तानि । एतदनुसृत्य एव एतादृशः निश्चयः।


 कलालयाध्यापकानां  विरामायुः वर्धयितव्यमिति निवेदनं निरस्तम्।

कोच्ची> केरलेषु कलालयाध्यापकानां विरामकालायुः यू जि सि व्यवस्थामनुसृत्य ६५ वर्षाणि  करणीयानीति आवेदनं केरलस्य उच्चन्यायालयेन निरस्तम् । एषः सर्वकारस्य कूटनीत्याः अंशः इति न्यायालयेन व्यक्तीकृतम् ।

मेय् मासान्त्यं यावत् अत्युष्णः सोढव्यः।

अनन्तपुरी> केरले मेय्मासान्त्यं यावत् असह्यः उष्णः अनुवर्तिष्यत इति पर्यावरणनिरीक्षणकेन्द्रेण सूचितम् । इदंप्रथमतया तापावस्थामधिकृत्यापि प्रवचनम् आरब्धम् ।
 मेय्मासान्त्यं यावत् सामान्यतः डिग्रिद्वयस्य अधिकः तापः भविष्यतीति सूचना दत्ता । पसफिक् समुद्रं तापमानं कुर्वन् " एल् निनो " प्रतिभास एव कारणमिति शास्त्रज्ञानां मतम् ।