OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, April 28, 2016

दृश्यश्रव्यचलनक्रीडायां भारतीयछात्रयोः गिन्नस् रेकोर्ड
अबुदाबी> दृश्यश्रव्यचलनक्रीडा न केवलं समययापनाय आपि तु गिन्नस् सोपानमपि भवति इति स्वसामर्थ्येन स्थिरीकृतं छात्राभ्याम् । अबुदाब्यां भारतीयविद्यालये द्वादशकक्ष्यायां पठन्तौ छात्रौ सञ्जुः, वैशाखः च 'ग्रान्ट् टुरिस्मो' इति क्रीडायाः 'लुबुना सीक्का' इति पङ्क्तिं शीघ्रेण एव समापितवन्तौ। १.३६ मिनिट् इति समयं १.२८ मिनिट् इति परिवर्त्य एव तौ रेकोर्ड स्थापितवन्तौ।

 शिशुमरणम् - आशङ्काजनकम् ।
नवदिल्ली> राष्ट्रे प्रतिवर्षं  द्वादशलक्षाधिकाः शिशवः मरणं प्राप्नुवान्ति इति केन्द्र आरोग्यमन्त्री जे .पी. नड्डा। एतत् आशङ्काजनकमेव। पोषकाभावः, अणुबाधा च शिशुमरणे मुख्ये कारणे भवतः इति पठनानि स्थिरीकुर्वन्ति इति राज्यसभायां प्रतिवचनरूपेण मन्त्रिणा उक्तम्।


 स्व छायाग्रहणभ्रमः आपदि पतने
 
  कोटैक्कनाल्> मधुरादेशीयः कार्तिक् नामक: युवकः कोटैक्कनाल् विनोदसञ्चारकेन्द्रस्य 'डोल्फिन् नोस्' नामकात् गिरेः सहस्रपादात्मकम् अगाधगर्तम् अपतत् । मित्रैः साकं मद्यम् पीत्वा एव युवक: आगतः इति आरक्षकैः सूचितम्। युवकानां मद्यपानासक्तिः तथा स्वछायाग्रहणभ्रम: च इदानीन्तनकाले आपदि पतने मुख्यम् कारणम् भवति इति अधिकृतैः उक्तम्।


विधानसभायां स्त्रीशाक्तीकरणम्
 वाषिङ्टण् > अमेरिकादेशस्य अध्यक्षस्थानम् प्राप्यते चेत् नियमनिर्माणसभायां महिला प्रातिनिध्यं निश्चयेन भविष्यति इति हिलरी क्लिन्टण् । अमेरिकायाम् अध्यक्षस्थाननिर्वाचने डेमोक्राटिक् संघस्य साध्यतापट्टिकायां अग्रे भवति इयं वनिता। देशस्य जनसंख्यायां  पञ्चाशत् प्रतिशतं महिला: एव । तं सामूहिकस्वभावमाधारीकृत्य नियमानिर्माणसभायामपि पञ्चाशत् प्रतिशतं वनिताप्रातिनिध्यं भविष्यति इति तया अभिप्रेतम्।

परिवर्तनम् आकाशेऽपि
          नवदिल्ली> प्रधानमन्त्रिणः कार्यालयः कर्मनिरत‌: भवति। तस्य विमानसैन्यम्-१ मध्ये कार्यालयस्य पूर्णसज्जीकरणं द्रष्टुं शक्यते। विमाने अन्ये विनोदमार्गाः न सन्त्येव। अतः सर्वे सहयात्रिकाः स्वकर्मसु निरता: भवेयुः अन्यथा निद्रां कुर्यु:। विमाने मद्यं सम्पूर्णतया वर्जितं भवति । सस्याहारस्य प्रामुख्यं  दीयते । तथा च अस्माकं प्रधानमन्त्री आकाशेऽपि  स्वकर्मसु निरतः एव।

 जलमेव परं धनम्

नवदिल्ली> महाराष्ट्रे अस्यां कालावस्थायां ऐ पि एल् क्रिकट् प्रदर्शनं मा भवतु इति उच्चतरन्यालयः। प्रथमं जल दौर्लभ्यं परिहर्तुम् आवश्यका: मार्गाः एव आविष्करणीयाः। जल दौर्लभ्यस्य काठिन्येन कष्टमनुभवतां जनानाम् अवस्थां परिगण्य एव उच्चतरन्यायालयेन एवं निरीक्षितम्। अस्याम् अवस्थायां l क्रिकट् क्रीडाणां वा जलस्य वा प्रामुख्यं कल्पनीयम् इति क्रीडाधिकृतैः चिन्तनीयम् इत्यपि सर्वोच्चन्यायालयेन अभिप्रेतम्। एवं च मेय् २९ दिनाङ्कस्य अन्तिम-क्रीडासहितानां त्रयोदशक्रीडाणाम् अपि प्रदर्शनस्थानानि आधिकृतैः परिवर्तनीयानि।
        हास्यरेखाचित्रकारः टोंस् दिवंगतः।
कोट्टयम्> " बोबनुं मोळियुम् " (बोबः मोळी च) इति
बालकथापात्राभ्यां ६० संवत्सराणि केरलान् हासयन् चिन्तां कारयन् टोम्स् इति विख्यातः हास्यरेखाचित्रकारः वि टि तोमसः दिवंगतः। कोट्टयस्थे वैयक्तिकातुरालये ह्यः रात्रौ अन्त्यमभवत्।
 रेखाभिः पदैश्च जनानां सङ्कुचितत्वम् अधमचिन्ताधारां च हास्यगर्भया रीत्या  तदीयरचनाः प्रकाशिताः  आसन् ।