OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, April 9, 2016

जलं दुर्लभम्

रामकुण्डं अद्य
त्रिंशत्यधिकशत - वत्सरानन्तरं रां कुण्डम् निर्जलीकृतम् अभवत्

नासिक् > महाराष्ट्रराज्यः सूर्यतापेन ज्वलति। पानीयजलस्य
रामकुण्डं गतवर्षे
द्वाैर्लभ्येन जनाः क्लेशमनुभवन्ति। गोदावरी नद्याः रां कुण्डस्य वाप्याः जलमपि शुष्कम् अभवत्‌ । १३० वर्षात् पूर्वमेव रामकुण्डस्य एतादृशी अवस्था जाता।
'गुढी पाडवा' महोत्सवस्य अनुबन्धतया प्रतिसंवत्सरं शतसहस्राधिकाः जनाः पुण्यस्नानं कुर्वन्त्यत्र । ३०० वर्षात्‌ पूर्वमेव निर्मितः भवति अत्रत्या वापी । वनवासकाले सीता रामेन सह अस्मिन्  स्नानं कृतवती इत्यस्ति काचन प्रथा। कुम्भमेलायाः काले जनाः अधिकतया आगच्छन्ति।