OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, May 1, 2016

 उच्चतरन्यायालये केरलस्य निवेदनम्
 राष्ट्रे वैद्यबिरुदपठनप्रवेशाय एकीकृतपरीक्षा(नीट्) विषये उच्चतरन्यायालये केरल राज्येन निवेदनं समर्प्यते। केरले प्रवेशन परीक्षा समापिता इति निवेदने सूचयिष्यति। केरलम् अतिरिच्य गुजरातसर्वकारेणापि प्रवेशनपरीक्षा समापिता वर्तते।
 प्रधानमन्त्रिणः विद्याभ्यासयोग्यतां ज्ञापयितुं केन्द्रवृत्तान्तज्ञापनाधिकार समितेः निर्देश:
  नवदेल्ली> प्रधानमन्त्रिणः नरेन्द्रमोदिनः विद्याभ्यासयोग्यता: ज्ञापयितुं केन्द्रवृत्तान्तज्ञापनाधिकारसमितिः प्रधानमन्त्रिणः कार्यालयं,दह्ली-गुजरात् -विश्वविद्यालयौ च न्यवेदयत् । २०१४- कालस्य निर्वाचनवेलायां मोदिना समर्पितसत्यप्रस्तावनायां दह्ली विश्वविद्यालयात् बिरुदं, गुजरात् विश्वविद्यालयात् बिरुदानन्तरबिरुदं च सम्पादितम् इति सूचितमासीत्। इदानीं प्रधानमन्त्रिणःविद्याभ्यासयोग्यतायाः विषये दह्ली मुख्यसचिवेन अरविन्द केज्रिवाल् महोदयेन आक्षेपः उन्नीत: अस्ति। योग्यताविषये स्थिरीकरणम् आवश्यकम् इति संसूच्य केज्रिवाल् केन्द्रवृत्तान्तज्ञापनाधिकारसमितिं प्रति लेखं प्रेषयति स्म। अत एव विषयेऽस्मिन् केन्द्रवृत्तान्तज्ञापनाधिकारसमितिः स्पर्शनमकरोत्।

 उत्तराखण्डे दावाग्निः - पञ्च जनाः मृताः

डेराडूण् : - उत्तराखण्ड् राज्ये कुमा-ओण् ,घर्वाल् इत्यनयोः प्रदेशयो: दावाग्निः। दावाग्नौ पञ्च जनाः मृताः इति सूचना । १८९० हेक्टर् वनप्रदेश: दावाग्नौ तप्तःI तिस्र: देशीयदुरन्तनिवारणसेनाः    रक्षाप्रवर्तनानां नेतृत्वम् आवहान्ति।

 नेत्रे उन्मीलिते
 नवदेल्ली >भगत्सिंह:,चन्द्रशेखर् आसादः, सूर्यासेन् इत्येतान् चरित्रपुरुषान् विपर्ययं कृत्वा चित्रीकृतं विवादपुस्तकं दह्ली विश्वविद्यालयेन पाठ्यपद्धतेः निष्कासितम्। विवादपुस्तकस्य उपरि महान् आक्षेपः उन्नीत: आसीत् । पुस्तकस्य  निष्कासनाय भगत्सिंहस्य बान्धवाः निवेदनं दत्तवन्तः स्म। पुस्तकं निष्कासयितुं केन्द्रमानव विभवशेषिमन्त्रालयेन निर्देशः दत्तः आसीत्। अत एव विश्वविद्यालयेन व्यवहारः स्वीकृतः। अपि च पुस्तकस्य वितरणं विक्रयणं च निरोधितं वर्तते।

समुद्रस्य अधस्तले अपि "अनावृष्टिः" : मत्स्याय दुर्भिक्षः।

कोच्ची > राष्ट्रस्य मत्स्यसम्पदि महदूनं कुर्वन् समुद्रस्य अधस्तले अपि अनावृष्टिप्रतिभासः। अनेन केरलतीरेषु १६% ऊनं मत्स्यलभ्यतायामभवत्। केन्द्रसमुद्रमत्स्यगवेषणकेन्द्रेण आयोजिते सर्वेक्षणे एवेदं वीक्षणम्। समुद्राधस्तलतापः क्रमातीतः वर्धितः। अतः तत्रत्याम् आवासव्यवस्थायां परिवर्तनमभवत्। मत्स्यानाम् आहारलभ्यतायामपि महदूनं जातम्।