OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, May 30, 2016

 उत्तरपूर्वराज्याणां विकसनं प्राधान्यमर्हति - मोदी

 षिल्लोङ् > उत्तरपूर्वराज्याणां संपूर्णविकसनं देशीयजनाधिपत्यदलस्य मुख्यं लक्ष्यमेव भवतीति प्रधानमान्त्रिणा उक्तम्। ह्यः षिल्लोङ् नगरे उत्तरपूर्वमण्डलानां समितेः ६५ - तम समग्रयोगस्य समापनसमारोहे भाषयन् आसीत् प्रधानमन्त्री। उत्तरपूर्वराज्याणां विकसनाय गतागतमार्ग:, रेल्मार्गः, ऊर्जसं रक्षणं , जलगतागतं, वार्ता विनिमयः इत्यादिषु सर्वेष्वपि मण्डलेषु आवश्यकानि प्रवर्तनानि आयोजायितुं केन्द्रसर्वकारः प्रतिज्ञाबद्धः इति प्रधानमन्त्रिणा सूचितम्।उत्तरपूर्वराज्याणां कृते प्रथमं ब्रोड्गेज् पासञ्चर्यानं प्रधानमन्त्रिणा उद्‌घाटितम्। तेभ्यः राज्येभ्यः ३४५ कोटिरुप्यकाणां विनियोगेन ८४ कि.मी. रेल्मार्गः केन्द्रसर्वकारेण पूर्तीकृतः वर्तते।


युद्धशमनं विना राष्ट्रसीमा

 जम्मु काश्मीर् > राष्ट्रसीमायां नियन्त्रणरेखायाः समीपे पुनरपि आतङ्गवादिनां सान्निध्यम्। कुप्पुवारा मण्डले आतङ्गवादिनां सान्निध्यमस्ति इति सूचनानुसारं कृते अन्वेषणे दिनद्वयस्य कठिनपरिश्रमेण भारतसैनिकाः आतङ्गवादिजनान् मारितवन्तः।आक्रमणे चत्वारः आतङ्गवादिनः मृतवन्तः। एकः सैनिकः वीरचरमं प्राप्तवान् च ।मण्डलात् विविधा: आयुधा: च लब्धा: सन्ति।


ओबामा हिरोषिमायाम् 

   वाषिङ्टण्> सप्ततिवर्षेभ्यः पूर्वं १९४५ तमे वर्षे जापानस्य हिरोषिमायाम् अमेरिकया अण्वायुधपरीक्षणं कृतम् आसीत्। एतत् चरित्रसत्यम्। ततः परं एतावता अमेरिकायाः यः कोऽपि अध्यक्षः हिरोषिमायाम् सन्दर्शनं न अकरोत्। एतदपि चरित्रसत्यमेव। किन्तु इदानीम् अमेरिका अध्यक्षः बराक् ओबामा महोदयः स्वपूर्विकाणां पारम्पर्यं परिष्कर्तुं निश्चयमकरोत्।विना विलम्बमेव तस्य हिरोषिमा सन्दर्शनं भविष्यतीति सूचना आगता। तर्हि तदपि अन्यदेकं चरित्रं भवेत्।

देशीयशैक्षिकनयः अन्तिमदशायाम्
  नदेहली> देशीयशैक्षिकनयरूपीकरणाय आयोजितया समित्या निर्देशः समर्पितः। पूर्वतनमन्त्रिसभानिर्वाहकः टि एस् आर् सुब्रह्मण्यम् आसीत् समितेः अध्यक्षः। ह्यः मानवविभवशेषिविभागस्य अध्यक्षाय स्मृती इरानी महोदयाय समित्या पठनरेखा समर्पिता वर्तते।

अन्तर्जालोपयोगः निशुल्कः भवतु - ट्राय् अध्यक्ष: 

                    दहली:- राष्ट्रे अन्तर्जालोपयोगस्य एकीकरणम् आवश्यकमिति ट्राय् अध्यक्ष: आर्.एस्.शर्मा । राष्ट्रे अन्तर्जालसौकर्यादिकं दूरवाणीद्वारा दीयमानं साहाय्यसंविधानम् इव निशुल्कं भवतु इति तेन सूचितम्। अपि च अन्तर्जालोपयोगाय स्वीक्रियमाणं धनमूल्यं वैविध्यरहितं भवतु इति वार्ताविनिमयसेवनदातृन् सः अभ्यर्थितवान्।

देशीयगानविवादः- फरुक् अब्दुल्ला क्षमायाचनम् अकरोत्।

        नवदहली -  पश्चिमबङ्गाले ममता बानर्जी महोदयायाः सत्यप्रतिज्ञावेलायां जङ्गमदूरवाणीद्वारा भाषणं कृत्वा विवादे अन्तर्भूतः जमू काश्मीरराज्यस्य पूर्वतन मुख्यसचिवः फरुक् अब्दुल्ला क्षमायाचनम् अकरोत्। सत्यप्रतिज्ञावेलायां देशीयगानालपनसमये अन्ये सर्वेऽपि मानं तिष्ठन्तः स्म, तदा जङ्गमदूरवाणीद्वारा भाषणं कुर्वतः फरुक् अब्दुल्लायाः दृश्यं सामूहिकमाध्यमेषु प्रसारितं आसीत्।एतदुपरि महान् आक्षेपः उन्नीतः च।किन्तु राष्ट्रम् अवमानयितुं मया किमपि न आचरितं, तथापि मम कृत्यं यस्य कस्यापि वेदनाम् अजनयत् चेत् कृपया क्षम्यतामिति फरुक् अब्दुल्लया अभ्यर्थितम्।

आणवोर्जसङ्घाङ्गत्वम् - भारतस्य कृते अमेरिकायाः आनुकूल्यम्

       वाषिङ्टण् - लोके आणवोर्जोत्पादन-विनियोगादिकं क्रियमाणानां राष्ट्राणां सङ्घे भारतस्य अन्तर्भावाय अमेरिकायाः आनुकूल्यम्। भारतस्य अन्तर्भावविषये गतदिने पाकिस्तानेन आक्षेपः उन्नीतः आसीत्। एतदुपरि अमेरिकायाः प्रतिकरणं श्रद्धेयं भवति। सङ्घे अङ्गत्वमित्येतत् केवलम् अण्वायुधनिर्माणाय उपयोगाय च अनुमतिः इति न, अपि च आणवोर्जस्य यथाविधि अवश्य मण्डलेषु विनियोगः एव इति अमेरिकया सूचितम्।

  देहल्यां धूमपाननिरोधः 

                   नवदेहली- देहल्यां सामूहिकप्रदेशेषु धूमपानस्य निरोधः भविष्यति इति सूचना। धूमपानस्य तथा अन्येषां उन्मादकवस्तूनां च निरोधनाय आरक्षकाधिकारिभिः निर्देशः स्वीकृतः अस्ति। २००३ तमे वर्षे आयोजित 'कोट्पा' नियमानुसारमेव नूतनपरिष्कारः। देहल्याः क्रमसमाधानदायित्वं निर्वहन् आरक्षकाधिकारिः पि कामराजः एव नूतनपरिष्कारविषये असूचयत्।