OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, May 26, 2016

बृहदजगरं राजसर्पः अगलयत्।

कोच्ची>सर्वं गिलन्तं बृहदाकारं शक्तं च अजगरं राजसर्पः गिलति स्म। केरले एरणाकुलं जनपदे कालटी समीपे काननविभागस्य तैलतालवाटिकायामेव इयम् अपूर्वा घटना सञ्जाता।
  १२ पादपरिमितः बृहद्राजसर्पः तथावत्परिमितम् अजगरं गिलति स्म। तालवृक्षवाटिकस्थाः कर्मकराः एतद्दृश्यं वीक्ष्य वनपालकान् ज्ञापितवन्तः।
    कोटनाट् वनप्रविश्यायाः अधिकारी सर्पधारकविदग्धश्च जे बि साबुः आगत्य राजसर्पस्य वक्त्रात् अजगरं बहिर्नीतवान्। किन्तु  त्रिपादपरिमितं राजसर्पान्तर्गतः अजगरः मृत आसीत्। राजसर्पस्तु गिलितम् अजगरं बहिर्गमयितुं शिष्टं गिलितुं वा अशक्तः विषमसन्धिं प्राप्तः आसीत्।
   साबुवर्यस्तु बहुधा क्लेशयित्वा सर्पद्वयं पृथक्कृतवान्। द्वयस्यापि अतिभारत्वात् राजसर्पं स्वस्कन्धे स्थापयित्वा अजगरं हस्ते स्वीकृतवान्। अन्ते राजसर्पः जीवन्मरणसंग्रामं कृत्वा अजगरम् अवमत् च। राजसर्पं वनमेव विमोचयत।