OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, June 11, 2016

 भारतात् चोरितानि वस्तूनि अमेरिक्कया प्रतिदत्तानि। 

वाषिङ्टण् >भारतात् चोरणं कृत्वा अमेरिक्कां प्राप्ताः   द्विसहस्रं संवत्सराणां पुरातनत्वमर्हन्तः विग्रहाः प्रतिमाश्च सहिताः द्विशतं करकौशलसामग्र्यः भारताय प्रतिदत्ताः। सहस्रलक्षं डोलर् मूल्ययुक्तानि एतानि वस्तूनि अमेरिक्कायां सन्दर्शनं कुर्वन् भारतप्रधानमन्त्री नरेन्द्रमोदी राष्ट्राय स्वीकृतवान्।
   कांस्य- टेराक्कोट्टा इत्यादिभिः निर्मितानि एतानि भारतस्य आराधनालयेभ्यः चोरितानि भवन्ति। चेन्नै नगरस्थात् महेश्वरमन्दिरात् मुष्णीता योगिनः कवेश्च माणिक्कवाचकरस्य (ए डि ८५० - १२५०) प्रतिमा भवति मूल्यतमा। अस्याः मूल्यं १० कोटि रूप्यकाणि  इति गण्यते।
   अमेरिक्कायाः महामनस्कतायै मोदिवर्यः धन्यवादं प्रस्तौति स्म।