OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, June 20, 2016

कोषिक्कोट्- आलप्पुषा वैद्यकीयकलाशाले अतिविदग्धचिकित्साकेन्द्रे भवतः ।
         नवदेहली >केन्द्रसर्वकारैः स्वीकृतः निर्णयः एषः । द्वयोः वैद्यकीयकलाशालातुरालययोः कृते प्रत्येकं 125 कोटि रूप्यकाणि केन्द्रेण दीयते । प्रत्येकस्मै 25 कोटिरूप्यकाणि राज्यसर्वकारैरपि समाहरणीयानि  इति केन्द्रारोग्यमन्त्री जे पी नड्डा उद्घोषितवान् ।

 युद्धविमानाय वनिताचालकाः। 

हैदराबाद् > भारतस्य युद्धविमानम् उड्डाययितुं इदंप्रथमतया वनिताचालकाः।  भावनाकान्त्, अवनी चतुर्वेदी , मोहना सिंह इत्येताः भारतस्य प्रथममहिलाचालकरूपेण अंगीकृताः।
  हैदराबादस्थे दुण्टिगल् व्योमसेना अकादम्यां पठनं सम्पूर्णं कृतवत्यः। प्रतिरोधमन्त्री मनोहर्परीक्करः कार्यक्रमे भागभाक्कृतवान्।