OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, July 28, 2016

लखनऊ> खगोल- विषयकं ज्ञानं भवतु वा अंकानां ज्ञानं समेषां मूलं ज्योतिषमस्ति। अद्यापि जनेषु ज्योतिषे रुचिः वर्धमाना दृश्यते इति उद्गारः लखनऊ नगरस्थिते उत्तर-प्रदेश-संस्कृत-संस्थाने जुलाई मासस्य 27 दिनांके आयोजिते एकमासात्मकं ज्योतिष - प्रशिक्षण - शिबिरस्य समापनावसरे मुख्यातिथिना पं. राधेश्याम शास्त्रिणा उक्तम्। शिविरेस्मिन् 150 प्रशिक्षणार्थिनः प्रशिक्षणं प्राप्तवन्तः।कार्यक्रमे तेभ्यः प्रमाणपत्रस्य वितरणमपि जातम्। त्रयाणां प्रशिक्षकदैवज्ञानां सम्माननमपि अभवत्। अस्मिन्नवसरे संस्थानस्या अध्यक्षा निदेशकश्च उपस्थतौ आस्ताम्।

 छात्रेभ्यः संस्कृत-गानालपन-प्रतियोगिता समायोजिता
नवदिल्ली> २७-०७-२०१६ तमे दिनांके राजधान्यां नवदिल्ल्यां डी.ए.वी.अशोकविहार विद्यालये दिल्लीप्रशासनेन उत्तर- पश्चिम- मण्डलीय-प्राशासनिक- विद्यालयानां छात्रेभ्यः संस्कृत-गानालपन-प्रतियोगिता समायोजिता।
प्रतिस्पर्धायामस्यां ३० विद्यालयानां छात्राः सम्मिलिताः अवर्तन्त। माध्यमिकस्तरे ४९ छात्रैः अथ च  उच्चमाध्यमिकस्तरे ४३ छात्रैः  भागः स्वीकृतः,यत्र हि छात्रैः विविधछन्दरसाप्लावितगीतानि प्रस्तुतानि। येन समुपस्थितजनमनस्सु संस्कृतभाषानुरागः दृग्गोचरीभूतः।