OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, July 28, 2016

कर्मनैपुण्यवर्धनाय केन्द्रसर्वकारस्य नूतनपरिष्कारः।  
नवदहली > केन्द्रसर्वकारोद्योगिनां कर्मनैपुणिं वर्धयितुं केन्द्रसर्वकारस्य नूतनपरिष्कारः। स्व कर्मसु अभिवृद्धिः न प्राप्ता चेत् आधारवेतने क्रियमाणं वाषिकवर्धनं संग्रहीतुं केन्द्रसर्वकारस्य नूतने आज्ञापत्रे सूचितं भवति। उद्योगं प्रविश्य निश्चितसमयपरिधौ निबन्धनानुसारेण अभिवृद्धिः कर्ममण्डले न प्राप्ता चेत् वार्षिकवर्धनस्यापि आवश्यकता नास्तीति आज्ञापत्रं सूचयति। कार्यशेषिम्၊ अनुसृत्यैव उद्योगस्थानां स्थानोन्नतिः, वार्षिकवर्धनम् इत्यादिकं कार्यम् इति वेतननिर्णयसमित्या निर्दिष्टम् आसीत्।

वनितासमितेः अध्यक्षां प्रति न्यायालय-व्यवहारः।
  नवदहली > देहली वनितासमितेः अध्यक्षायाः उपरि नीतिन्यायवादः स्वीकृतः। देहल्यां कतिपयदिनेभ्यः पूर्वं क्रूरतया पीडितायाः बालिकायाः नाम नाम माध्यमेभ्यः प्रकाशितम् इत्येव व्यवहारः। इयं बालिका दलितविभागीया भवति। एतेषु सन्दर्भेषु पीडनमनुभवतां व्यक्तीनां नाम बहिः न वक्तव्यम् इति नियमानुशासनं वर्तते। पीडितायाः बालिकायाः नाम  देहली वनितासमितेः अध्यक्षया स्वाती मलिवाल् महोदयया उक्तमिति आरोप्य एव न्यायाल- व्यवहारः स्वीकृतः वर्तते। पीडनात्परम् अपराधिनः विषपानमपि बालिकां अकारयन् । न केवलं तत् सा बालिका गतदिने मृता अभवत्।

जि एस् टि - राज्यानां नष्टं केन्द्रसर्वकारः वहेत्।
  नवदहली > भारसेवनकरव्यवस्थया(जि एस् टि) राज्येभ्यः आगम्यमानः नष्टः पञ्चवर्षात्मककालपर्यन्तं केन्द्रसर्वकारेण वहेत्। एतत् संबन्धी निर्णयः राज्यस्तरीयानाम् आर्थिकसचिवानाम् उन्नताधिकारसमित्या स्वीकृतः। जि एस्‌ टि व्यवस्थां प्रति परिवर्तनवेलायां विविधैः राज्यैः बृहन्नष्टम् अभिमुखीक्रियते इति आर्थिकसचिवैः सूचितमासीत्। जि एस् टि समीपनविषये प्रधानतया द्वावंशौ उन्नताधिकारसमित्या अङ्गीकृतौ वर्तेते। तयो: एकस्तु सामान्यजनानां करभारस्य न्यूनीकरणम्, अपरस्तु राज्यानां करात्मकधनसम्पाद्यस्य दृढीकरणम् च। एतत्सम्बन्धतया भरणसंहितापरिवर्तनपत्रिका विधानसभायाम् अनुमतये समर्पयिष्यति। करव्यवस्थायाः स्वरूपं, अनुपातः इत्यादीनां विषये समितेः अग्रिमयोगः निर्णयं स्वीकरोति।

निकषस्पर्धाग्रे आगतानाम् मध्ये - प्रथमस्थानं प्रतिग्राह्य रविचन्द्र अश्विन्।
  दुबाय् > ऐसिसि निकषस्पर्धाग्रे आगतानां मध्ये पट्टिकायां पुनरपि प्रथमस्थानमारुह्य  रविचन्द्र अश्विन् भारतस्य यशः उन्नीतवान्। पाकिस्तानस्य यासिर् षां तरणं कृत्वा एव अश्विनस्य स्थानारोहणम्। वेस्ट् इन्टीस् सह अवसितायां प्रथमनिकषस्पर्धायाम् अश्विनेन सप्त द्वारकाणि प्राप्तानि। अश्विनस्य कृते इदानीं ८७६ अङ्काः सन्ति। इङ्ग्लण्टस्य आन्डेर्सन्, स्टुवर्ट् बोर्ड् च यथाक्रमं द्वितीयतृतीयस्थानयोः वर्तेते।