OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, July 26, 2016

भारतीया युवती मोचिता।  
काबूल् > काबूल् तः अज्ञातैः बन्धिता भारतीया युवती मोचिता। गतमासे नवमदिनाङ्के बन्धिता आसीत् ४० वयस्का जूडित् डिसूसा नामिका युवती। सा आगा खान् फौण्डेषन् इत्यस्याः सन्नद्धसंस्थायाः वरिष्ठोपदेष्टा भवति। विदेशकार्यसचिवा सुषमा स्वराजमहोदया युवत्या: मोचनवृत्तान्तं न्यवेदयत्। अफ्गान्‌ पुनर्निर्माणसम्बन्धतया प्रवर्तमाना संस्था भवति आगा खान् फौण्डेषन्। काबूल् देशस्य तैमानी मण्डलादेव सा बन्धनस्था अभवत्। किन्तु मोचनसम्बन्धाः विशदांशाः अधिकृतैः न प्रत्यक्षीकृता:।


सर्वकारातुरालये विद्युतद्विघातः - २१जनाः मृताः।
 हैदराबाद् > तेलुङ्काना राज्ये सर्वकारातुरालये विद्युद्विघातेन २१ जना: मृताः। गान्धी मेडिक्कल् कोलेज् मध्ये एव अपायः सञ्जातः। मृतेषु नवजातशिशव: अपि अन्तर्भूताः। तीव्रपरिचरणविभागं प्रविष्टा: रोगिणः एव मृताः।विद्युद्विघातेन शुक्रवासरादारभ्य  विद्युज्जनकान्याश्रित्यैव आतुरालयस्य प्रवर्तनानि कृतानि। किन्तु निरन्तरोपयोगेन एतेषु कानिचन यन्त्राणि प्रवर्तनरहितानि अभवन्। अनेन तीव्रपरिचरणविभागस्य प्राणवायुप्रवेशकयन्त्राणि तथा नवजातशिशूनां परिचरणविभागस्य संरक्षकयन्त्राणि च प्रवर्तनरहितानि अभवन्। एतत्तु मरणस्य मुख्यं कारणम् अभवत्।



केरळेषु संस्कृत-जागरणम्   
                                                                कोषिक्कोट् > केरळेषु प्रति जिल्लायां संस्कृत-जागरणं प्रवर्तमानमस्ति। कार्यक्रमोयं केरल-संस्कृतअध्यापक फ़ेडरेशन् द्वारा आयोजितः। अस्मिन् कार्यक्रमे पूर्वजाः संस्कृत-कार्यकर्तारः, अध्यापकाः, संस्कृत-प्रेमिणः, च भगभाजः आसन् इदानीम् जनाः संस्कृतपठनं आवश्यकम् इति चिन्तयन्ति। फ़ेडरेशन् निजीयदलस्य मुख्य सचिवः संतोष्कुमारः अवदत् आधुनिक-वैज्ञानिक-मण्डले भागं स्वीकर्तुं संस्कृतं इदनीमपि सज्जाः इत्यपि सः अवदत् ।


तिरोभूतानां केरळीयानाम् ऐ एस् सम्बन्धः स्थिरीकृतः।
कोच्ची> केरळीयानां तिरोधानविषये इस्लामिक स्टेट् भीकरसंस्थायाः सम्बन्धः आरक्षकदलेन निर्णीतः। कोच्चीतः अप्रत्यक्षा मेरिन् नामिकां मरियमिति नाम्नि ऐ एस् प्रति आपयति स्म इति न्यायालयाय न्यवेदयत्।
   मुम्बय्यां केरळारक्षकैः बन्धनस्थौ  अर्षिद् खुरैषी, रिस्वान् खान् इत्येतौ अधिकृत्य ग्रहणावेदनपत्रे (Remand report) एव आरक्षकदलस्यायं परामर्शः। केरळीयानां तिरोधानविषये ऐदंप्राथम्येनैव ऐ एस् बन्धः स्थिरीकृतः। खुरेषी रिस्वानः च १४ दिनात्मके आरक्षकरक्षणे निक्षिप्तौ।
    कोच्ची स्वदेशिनी मेरिन् निर्बन्धित धर्मपरिवर्तनाय विहिता इति परामृष्टम् अस्ति। तस्याः पतिना यह्या नामकेनैव एतत् साधितम्। मेरिनायाः सोदरः अपि धर्मपरिवर्तनाय प्रेरित इति , एतेषां सर्वेषां प्रमाणानि स्वसकाशे सन्तीति च आरक्षकावेदनपत्रे परामृष्टमस्ति।