OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, July 1, 2016

मोदी पाकिस्थान् राष्ट्राय विपज्जनकः नेता - हाफिस् सयीद्।
  नवदहली > भारतप्रधानमन्त्री पाकिस्थान् राष्ट्राय विपज्जनक: पुरुषः एवेति आतङ्‌गवाददलस्य लष्कर् ई तोयिबायाः नेता हाफिस् सयीद् । भारतस्थायै मोदीविरुद्धशक्त्यायै सम्पूर्णसहयोगः अपि तेन प्रख्यापितः अस्ति। पाम्पोर् मध्ये सि आर् पि एफ् वाहनव्यूहं प्रति संवृत्तस्य आक्रमणस्य दायित्वम् अनया संघटनया अङ्गीकृतमासीत्I आक्रमणस्यास्य मुख्यः सूत्रधारः अस्य भागिनेय: खालिद् वालिद् भवति इति सूचना आसीत्I शनिवासरे एव पाम्पोर् मध्ये आक्रमणं सञ्जातम्। आक्रमणेन अष्टौ सैनिकाः हताः आसन्।

केन्द्रमन्त्रिसभाया: पुनःसंघाटनम् अचिरादेव।
 नवदहली > अग्रिमवर्षे उत्तरप्रदेश: - पञ्चाब् राज्ययोः नियमनिर्माणसभानिर्वाचनं लक्ष्यीकृत्य केन्द्रमन्त्रिसभायाः पुनःसंघाटनम् अचिरादेव भवतीति सूचना। एतत्सम्बन्धचर्चा: भा ज पा दलाध्यक्षः अमित् षा महोदय: प्रधानमन्त्रिणा सह कृताः इति विस्रंभयुक्तानि वार्ताकेन्द्राणि सूचयन्ति। पुनःसंघाटनेन मन्त्रिसभायां केषाञ्चन नवमुखानां प्रवेशोऽपि भविष्यतीत्यपि सूचनाः दृढीकुर्वन्ति।

मुंबई मध्ये मेट्रो रेलयानस्य वेगः वर्धयितुम् अनुमतिः।
 मुंबई > जुलै २ तः मुंबई मेट्रो रेलयानं प्रतिहोरम् अशीति (८०) कि.मी. वेगेन सञ्चालयिष्यति। एतदर्थं मेट्रो रेयिल् सुरक्षाधिकारिणा अनुमतिः दत्ता। मुंबई मेट्रो पद्धत्याः आरम्भे वेगः घण्टायां ५० कि.मी आसीत्। पश्चात् २०१६ तमे वर्षे ६५ कि.मी इति वर्धितः आसीत् ।नूतनः परिष्कारः जनेभ्यः सौकर्याय कल्पते।

मातृकानियमाय अङ्‌गीकारः - राष्ट्रे वाणिज्यकेन्द्राणि २४ घण्टेष्वपि।
   नवदहली > उन्नतवाणिज्यकेन्द्राणि प्रतिदिनं पूर्ण समयमपि प्रवर्तनसज्जं कर्तुं योजनाबद्धाय मातृकानियमाय केन्द्रसर्वकारस्य अङ्गीकारः लब्धः। दशाधिकाः उद्योगिनः अन्तर्भूतानि तथा उत्पादनप्रक्रियारहितानि च वाणिज्यकेन्द्राण्येव नियमस्यास्य परिधौ अन्तर्भवन्ति। किन्तु ऐ टि मण्डले एवं जैवसाङ्केतिकविद्यामण्डले च प्रवर्तमानेषु स्थापनेषु प्रवर्तनसमयः प्रतिदिनं ९ घण्टाः एव।नूतननियममनुसृत्य वाणिज्यकेन्द्राणां प्रवर्तनसमयः तैः स्वेच्छया निर्णेतुं शक्यः। किन्तु वाणिज्यकेन्द्रेषु अथवा स्थापनेषु पानजलं, भोजनालयः , शौचालयः , स्त्रीणां सुरक्षा इत्यादिषु कार्येषु व्यक्तं सज्जीकरणम् आवश्यकम् इत्यपि नियमे सूचयति। एतत् सर्वं अधिकृतैः परिशोध्य एव अनुमतिः दीयते।

 केरलेषु इन्धनमावश्यकं चेत् शिरस्त्राणं धार्यम्।
 तिरुवनन्तपुरम् > केरलेषु आगस्त् १ तः द्विचक्रिकायात्रिकेभ्यः इन्धनम् आवश्यकं चेत् तैः शिरस्त्राणम्  अवश्यं धार्यम्  इति गतागताधिकारिणः विज्ञापनम्। परीक्षणाधारेण तिरुवनन्तपुरम्, कोच्ची, कोषिक्कोट् नगरसभापरिधावेव नियमस्य प्राबल्यम्। नियमोऽयं द्विचक्रिकायात्रिकैः अङ्‌गीकृतः चेदपि कैश्चित् मण्डलेभ्य: विरोधोऽपि आगत:। नियमोऽयं अप्रायोगिक: चेत् परिष्करिष्यतीति गतागतसचिवेन ए के शशीन्द्रन् महोदयेन सूचितम्।

चित्रकलाचार्यः के जि सुब्रह्मण्यः दिवंगतः।
वडोदरा > आधुनिक भारतीय चित्रकलायाः आचार्येषु अन्यतमः के जि सुब्रह्मण्यः दिवंगतः।  के जि एस् इति विख्यातः सः भारतपारम्पर्यम् अनुतिष्ठन् चित्रकलानवीकरणाय प्रयत्नमावहति स्म।
 १९२४तमे संवत्सरे केरले कण्णूर् जनपदे लब्धजन्मायं वंगदेशे टागोर् वर्यस्य शान्तिनिकेतनादेव चित्रकलाभ्यासं कृतवान्। १९५१ तमे गुजरात् प्राप्य  बरोडायां एम् एस् विश्वविद्यालये अध्यापक अभवत्। १९८० तमे अध्यापकवृत्तित्वेन शान्तिनिकेतनं प्रत्यागतवान्। अन्त्यकाले बरोडायामेवासीत् तस्य वासः।
    पद्मश्री पद्मभूषणं पद्मविभूषणं  च दत्वा राष्ट्रेण आदुतः। अपि च कालिदास पुरस्कारः रविवर्मा पुरस्कारः ललितकला अक्कादम्याः विविधाः पुरस्काराः वंगमहाराष्ट्रसर्वकारयोः पुरस्काराश्च तं प्राप्तवन्तः। विदेशेषु विश्वविद्यालयेषु श्रेष्ठाचार्यपदवीं च ऊढवान्।