OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, August 1, 2016

 ओडीषायां विद्युत्पातेन ३५ जनाः मृताः।
भुवनेश्वर् > ओडीषायाः विविधभागेषु जातेन विद्युत्पातेन ३५ जनाः मृतवन्तः, ३६ जनाः व्रणिताः च । व्रणितेषु बहूनाम् अवस्था शोचनीया वर्तते। खुर्दा , बालसोर्, भद्रक् ,कियोगञ्चर्, मयूर्भञ्ज्, नयागड्, जाज्पूर्,सम्बल्पूर् इत्यादिषु जनपदेष्वेव विद्युत्पातः सञ्जातः। विद्युत्पातेन वृक्षाः दग्‌धाः। गृहाणां नाशः अपि जातः। केदारेषु , मैतानेषु च कर्म कुर्वद्भ्यः जनेभ्यः एव अपघातः सञ्जातः। एषु प्रदेशेषु द्रुतकर्मसेना रक्षाप्रवर्तनानि कुर्वन्ती वर्तते।


 ऐ एस् कृते रष्यायाः  तर्ज्जनभर्त्सनं।
   मोस्को >  ऐ एस् भीकरवादिनां कृते रष्यायाः राष्ट्रपतेः व्लाड्मीर् पुटिनः तर्जनभर्त्सनं । रष्यायाः उपरि ऐ एस् भीकरसंस्थायै यत्किमपि आक्रमणं कर्तुम् अवकाशः नैव दीयते इति तेन उक्तम्। बङ्ग्लादेश्, फ्रान्स् इत्यनयोः राष्ट्रयोः  ऐ  एस्. संस्थया कृताक्रमणवत्   किमपि आक्रमणं रष्यायां कृतं चेत् अर्धघण्टाभ्यन्तरे एव प्रत्याक्रमणं करिष्यति इति सः असूचयत्। तदर्थं सेना सुसज्जा इत्यपि पुटिन् अवदत्। अपि च ऐ एस् संस्थायाः स्वप्रख्यापितराजधानीं रक्कां गृहीतुं रष्याया: बृहत्‍सेना सन्नद्धा जाता इति सूचनाः वर्तन्ते।

 क्षुत्पीडाम् अनुभवद्भ्यः भारतीयेभ्यः विदेशकार्यसचिवायाः सहायहस्तः।
नवदहली > सौदी अरेब्यायां जिद्दा मध्ये उद्योगं नष्टाः अष्टशतं भारतीयाः क्षुदा पीडयन्तः सन्तीति वार्तामनुसृत्य विदेशकार्यसचिवायाः सुषमास्वराजमहोदयायाः सम्पर्कः।  एतेभ्यः भक्षणं दातुम् आवश्यकं व्यवहारं स्वीकर्तुं सौदी अरेब्यस्थं भारतीयदूतावासं प्रति सचिवया निर्देशः दत्तः वर्तते। समग्रान्वेषणाय विदेशकार्यसहसचिवः वि के सिंहः सौदीं प्रति यात्रामगच्छत्। जिद्दातः कैश्चित् भारतीयैः ह्यः ट्विट्टर् द्वारा सुषमास्वराजं प्रति विषयोऽयं निवेदितः आसीत्।

 भारते असहिष्णुता - आशङ्का वर्ततेति अमेरिका।
  न्यूयोर्क > भारते निरन्तरं वर्धमानेषु आक्रमणेषु तथा असहिष्णुतायां च आशङ्का वर्तते इति अमेरिका। गोमांसोपयोगं प्रति भारते वर्धमानाम् असहिष्णुतामधिकृत्य प्रतिकरणवेलायाम् अमेरिकायाः वक्ता जोण् किर्बी एव एवम् अभिमतं प्राकटयत् । गोमांसोपयोगं सम्बन्ध्य आगता: वार्ता: तथा मध्यप्रदेशे विषयेऽस्मिन् जाते आक्रमणे च स: आशङ्कां प्राकटयत्। सहिष्णुतायाः संस्थापनायै भारतम् इव अमेरिकया अपि निरन्तरपरिश्रमः क्रियते, विषयेऽस्मिन् भारतेन सह अमेरिकायाः ऐक्यदार्ढ्यमस्तीत्यपि स: असूचयत्।

 कला-सांस्कृतिकपरिषत्सु अध्यक्षाः नियुक्ताः।
अनन्तपुरी - केरळस्य कला - सांस्कृतिकपरिषद्भ्यः नवीनाध्यक्षाः सर्वकारेण नियुक्ताः। संगीत-नाटक अक्काडम्याम्  अध्यक्षरूपेण प्रसिद्धा चलच्चित्रनटी के पि ए सि ललिता नियुक्ता। केरळस्य  साहित्यपरिषदध्यक्षस्थानं साहित्यकारः वैशाखः प्राप्नोति। प्रशस्ता चलनचित्रशोधिका बीनापोल् चलच्चित्रपरिषदः उपाध्यक्षा भविष्यति। प्रथितः ग्रामीणगीतकारः सि जे कुट्टप्पः ग्रामीणकलापरिषदश्च अध्यक्षस्थानम् अलङ्करिष्यति।

किङ्स्टण् च भारतस्य नियन्त्रणे।
किङ्स्टण् - भारत वेस्टिन्डीसयोः द्वितीयायां क्रिक्कट् निकषस्पर्धायामपि भारतस्य अधीशत्वम्। प्रथमदिनस्यान्ते क्रीडासमाप्ते वल्लकस्यैकस्य नष्टे १२६ धावनाङ्काः संप्राप्ताः भारतेन। ततःपूर्वं वेस्टिन्डीसस्य बाट्टिंग् १९६ धावनाङ्कैः समाप्तम् आसीत्।

वार्तामुक्तकानि।
कोच्ची - ४७ दिवसीयं यन्त्रवत्कृतनौकया मत्स्यबन्धननिरोधनं समाप्य नौका अद्य आरभ्य सागरगमनाय सिद्धाः।
मुंबई - मुम्बय्यां विवादभूतस्य आदर्श भवनसमुच्चयस्य संरक्षणार्हता स्थलसेनया स्वीकृता। सर्वोच्चन्यायालयस्य निर्देशानुसारमेवायं क्रियाविधिः।
नवदिल्ली - पेट्रोल् तैल डीसल् तैलेन्धनयोः मूल्यं यथाक्रमं १.४२ , २.०१ रूप्यकाणि न्यूनीकृतानि।