OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, August 13, 2016

इरों शर्मिलायाः निराहारसमरम् अनुवर्त्य ३२ वयस्का वनिता। 
 इंफाल् > षोडशवर्षपर्यन्तं दीर्घीकृतनिराहारसंग्रामं समापयित्वा गतसप्ताहे एव इरों शर्मिलया राष्ट्रियमण्डलप्रवेशं सम्बन्ध्य स्वाभिप्रायः प्रकटितः। अफ्स्पा नियमं प्रतिनिवर्तयितुं इरों शर्मिलया कृतं निराहारसंग्रामम् अनुवर्तयितुं मणिप्पूर् स्वदेशिनी अरम्बांरोबितलीमा नामिका ३२ वयस्का सन्नद्धा अभवत् । द्वयोः बालयोः माता अपि भवति इयं युवती । इंफाल् पश्चिमजिल्लायाः कम्यूणिटि अङ्‌गणे शनिवासरे प्रभाते दशवादनात् तया निराहारसंग्रामः आरब्धः।

वैमानिकयाेः कृते वर्षचतुष्टयस्य निरोधः।
  नवदहली > मद्यलहर्यां विदेशात् भारतं प्रति विमानचालनं कृतम् इति कारणेन द्वयोः वैमानिकयोः डि जि सि ए पक्षतः वर्षचतुष्टयस्य निरोधः। द्वयोः उपरि एफ् ऐ आर् पञ्चीकृत्य अन्वेषणाय अपि निर्देश: दत्तः। एतौ एयर् इन्ड्या संस्थायाः जेट् एयर्वेय्स् संस्थायाः च वैमानिकौ भवतः।विमानस्य प्रत्यागमनात्परं कृतायां परिशोधनायां एतौ मद्यपानमकुरुतां इति व्यक्तमासीत्। एतस्मिन्नेव विषये एयर् इन्ड्या संस्थायाः एकः कर्मकरः निरोधितः वर्तते । वैमानिकाभ्यां गुरुतरः कृत्यविलोपः एव कृतः इति व्योमयानमन्त्रालयेन सूचितमासीत्।

 जम्मु - काश्मीर् समस्यां परिहाराय चर्चायै भारतसहयोगः आवश्यकः- पाकिस्थान्।
  नवदहली > काश्मीर् समस्यापरिहाराय चर्चा आवश्यकी,एतदर्थं भारतसहयोगः अपेक्षितः। एतत्सम्बन्ध्य भारतं प्रति आमन्त्रणपत्रिकां प्रेषयिष्यतीति पाक् प्रधानमन्त्रिणः विदेशकार्य उपदेष्टा सर्ताज् असीस् अवदत्। काश्मीर् समस्या परिहारः लक्ष्यं प्राप्स्यतीति विश्वासः वर्तते इत्यपि तेन सूचितम्।