OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, August 26, 2016

भाटकगर्भपात्राय निरोधः। 
नवदिल्ली - भाटकरूपेण गर्भपात्रस्य विनिमयं निरुध्य केन्द्रसर्वकारः नियमं करोति। धनं दत्वा गर्भपात्राणि विनिमयं कुर्वन्तीं व्यवस्थां निरोद्धुम् उद्दिश्य सरोगसि नियन्त्रण विधेयकाय केन्द्रमन्त्रिसभया अङ्गीकारः लब्धः।
    किन्तु अनपत्यदुःखमनुभवन्त्योः भारतीयदम्पत्योः धनविनिमयं विना निस्स्वार्थतया सन्निकर्षबन्धूनां गर्भपात्राणि उपयोक्तुं शक्यन्ते। विदेशीयाः, एन् आर् ऐ पौराः, इत्यादिभ्यः अनुमतिः न लभ्यते।

केरळे आपूर्तिपत्रम् उपडिसंम्बरमासम्। 
अनन्तपुरी - केरळराज्ये देशीयभक्ष्यसुरक्षानीतिम् आयोजयितुं निश्चयः मन्त्रिसभया कृतः। तदनुबन्ध्य नवीनम् आपूर्तिपत्रं डिसम्बर् मासाभ्यन्तरे वितरिष्यति।
    भक्ष्यधान्यार्हान् निश्चिनोतुं राज्यस्तरीयश्रेणीकरणं कर्तुमपि निश्चितम्। भक्ष्यवस्तूनां सुगमवितरणाय ब्लोक् तले  सम्भरणशालाद्वयनिर्माणं करिष्यति। भोगापूर्तिवस्तूनां समस्तविक्रयशालानां क्रियावाहित्वं वितरणस्य नियन्त्रणं च सप्लैको संस्थया निर्वूढिष्यते।