OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, August 28, 2016

 प्रधानमन्त्री-मेहबूबा मेलनम् अभवत्।
नवदिल्ली> जम्मु-काश्मीरविषये पाकिस्तानस्य कुमार्गः अपलपनीय इति काश्मीरस्य मुख्यमन्त्रिणी मेहबूबा मुफ्ती। प्रधानमन्त्रिणा नरेन्द्रमोदिना सह मेलनानन्तरं माध्यमप्रवर्तकान् प्रति भाषमाणा आसीत् सा। काश्मीरस्य अधित्यकायां विषयान् रूक्षीकर्तुं पाकिस्तानेन प्रकोपनं कृतमिति मेहबूबा आरोपितवती। भारतेन दत्तं सौहृदं प्रतिदातुं पाकिस्तानः विमुखतां प्रदर्शयति। काश्मीरप्रतिसन्धिं परिहर्तुं समस्तविभागैः सह चर्चां कर्तुं सविशेषासूत्रणम् आवश्यकमिति मेहबूबया निर्दिष्टम्।