OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, August 30, 2016

 संस्कृतेन विना आयुर्वेदस्य अध्ययनं न शक्यते -श्रीनिवासवरखेडि
 कोयम्बत्तुरु>संस्कृतेन विना आयुर्वेदस्य अध्ययनं न शक्यते इति  कोयम्बत्तुरु आयुर्वेदमहाविद्यालये एकदिवसीया विचारगोष्ठ्यां भाषमाणः आसीत् कर्णाटक-संस्कृतविश्वविद्यालयस्य भूतपूर्वः कुलपतिः डा. श्रीनिवासवरखेडि महोदयः। अगस्टमासस्य 28 दिनाङ्के कोयम्बत्तुरु आयुर्वेदमहाविद्यालये संस्कृत-संवर्धन-प्रतिष्ठानेन आयुर्वेदमहाविद्यालयेषु अध्यापनरतानां संस्कृतशिक्षकाणां कृते  संस्कृतेन आयुर्वेदः, आयुर्वेदाय संस्कृतम्, इति एकदिवसीया विचारगोष्ठी आयोजिता । अस्याः गोष्ठ्याः उद्घाटनम् कोयम्बत्तुरु-चिन्मयमिशन् संस्थायाः स्वामी-अनुकूलानन्दसरस्वती अकरोत्, । श्री.अनन्तकल्याणकृष्णन् महोदयः अध्यक्षः आसीत्, एषः संस्कृतभारती, दक्षिणतमिल्नाडु मण्डलस्य अध्यक्षः च । विचारगोष्ठ्यां विषयविशेषज्ञत्वेन समागतः आसीत् कर्णाटकसंस्कृतविश्वविद्यालयस्य भूतपूर्वः कुलपतिः डा. श्रीनिवासवरखेडि महोदयः । अस्यां विचारगोष्ठ्यां संस्कृत-संवर्धन-प्रतिष्ठानस्य कार्यपालकः श्रीमान् लक्ष्मीनरसिंह-महोदयः गोष्ठ्याः महत्त्वं कथयित्वा लक्ष्यम् उद्देश्यं च अवर्णयत् । डा. रघुरामभट्टः, प्राचार्यः कोयम्बत्तुर् आयुर्वेदमहाविद्यालयः, संस्कृतशिक्षकाणां महत्त्वं तथा संस्कृतेन आयुर्वेदपठनस्य कीदृशाः लाभाः इत्येतस्मिन् विषये सर्वान् उदबोधयत् । अपूर्वशर्मा विचारगोष्ठ्याः सञ्चालनम् अकरोत् । गोष्ठ्याम् आभारतात् प्रायेण त्रिंशत् शिक्षकाः उपस्थिताः आसन् । श्रीमती निरञ्जना धन्यवादसमर्पणम् अकरोत् ।

सौराष्ट्रनर्मदा-अवतरणसेचनयोजना
प्रधानमंत्री अद्य राजकोटे सौनी इति  सौराष्ट्रनर्मदा-अवतरणसेचनयोजनाया प्रथमचरणस्य  उद्घाटनं करिष्यति | अस्याः योजनायाः अन्तर्गतं सौराष्ट्रस्य  जलाशयाः नर्मदायाः जलेन प्रपूर्यिष्यन्ते।

अमेरिकाभारतयोः लॉजिस्टिक्स इति संभारतन्त्रसन्धिः 
भारत अमेरिका देशयोः मिथः  परस्परं सैन्यस्थलानां उपयोगार्थं लॉजिस्टिक्स इति संभारतन्त्रविषयकं  सैन्यसन्धिः हस्ताक्षरैः प्रमाणीकृतः | येन देशद्वयाभ्यां परस्परं जल, थल, वायु सैन्यस्थलानां विकासः, विनिर्माणं च समेत्य विविध गतिविधीनां आदान प्रदानं संभविष्यति |

 वार्ताः 
 * केन्‍द्रीयगृहमंत्रिणः  राजनाथसिंहस्य नेतृत्‍वे सर्वदलीयं शिष्‍टमण्‍डलं सितम्‍बरमासस्य चतुर्थे दिने जम्‍मूकाश्‍मीरं प्रयास्यति । अद्य  काश्‍मीरोपत्यकायां बहुत्र निषेधाज्ञा इति संचाररोधादेशः निराकृतः।

* भारत- म्‍यांमाभ्यां  नवीकरणीयोर्जा पारम्‍परिकौषधव्‍यवस्‍थां समेत्य सन्धिचतुष्टकं हस्‍ताक्षरैः प्रमाणितम् ।

* उच्‍चतमन्‍यायालयेन बुलंदशहरदुष्‍कृति प्रकरणस्य  राज्‍यतो बहिर्वादश्रवणविषयिन्यां याचिकाविषये   उत्‍तरप्रदेशप्रशासनाय अथ  राज्‍यमंत्रिणे आजमखानाय अध्यर्थनापत्रं प्रख्यापितम् ।

* राष्‍ट्रपतिना  पी.वी.सिंधु साक्षीमलिकः दीपाकर्माकरः जीतूरायश्च राजीवगांधीखेलरत्‍न इति क्रीडापुरस्‍कारेण बहुमानिताः ।

* यमन राजधान्यां अदननगर्यां  सैन्य शिविरे  आत्‍मघात्याक्रमणे बम्ब विस्फोटेन न्यूनान्न्यूनं षष्टि जनाः कालकवलिताः संसूच्यन्ते ।