OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, August 12, 2016

 स्वातन्त्र्यदिने श्रीनगरे देशीयध्वजारोहणं करिष्यतीति त्रयोदशवयस्का बालिका।

  अहम्मदाबाद्‌ > स्वातन्त्र्यदिने काश्मीरस्य श्रीनगरे लाल् चौक् मध्ये देशीयध्वजारोहणं करिष्यतीति गुर्जर स्वदेशिनी  बालिका। त्रयोदशवयस्का तन्सीं मेरानी एव एवमवदत्। सङ्घर्षपूरितेषु बहुषु काश्मीरमण्डलेषु बहोः कालादारभ्य आगस्त् १५, जनुवरी २६ इत्येतयोः देशीयप्राधान्यदिनयोः 'कर्फ्यू' प्रख्यापनं क्रियमाणं वर्तते। तत्तु अस्मिन् वर्षेऽपि भविष्यति। अतः ध्वजारोहणाय बालिकायै अनुमतिः नैव लप्स्यते इति विदग्धैः सूचितम्। माध्यमप्रवर्तकैः एतत्सूचिते सन्दर्भे 'स्व राष्ट्रे प्रवेशितुं कस्यापि अनुमतिः नावश्यकी' इत्येव बालिकायाः प्रतिवचनमासीत्।


 रियो ओलिम्पिक्स्- भारतस्य कृते जयपराजययोः दिनम्।
  रियो डी जनीरो > रियो ओलिम्पिक्स् मध्ये षष्ठं दिनं भारतस्य कृते जयपराजययोः दिनम्। बाड्मिण्डन् मध्ये पि वि सिन्धू स्वप्रथमस्पर्धायां जयं प्राप्तवती। किन्तु पुरुषाणां बाड्मिण्डन् द्वन्द्वस्पर्धायां भारतसङ्घः पराजितः। पुरुष-वनिताटेन्नीस् स्पर्धायां बोप्पण्णा-सानिया सख्येन विजयः प्राप्तः।धनुर्विद्यास्पर्धायां दीपिका कुमारी, बोम्बैला देवी च निष्कासिते। मुष्टियुद्धस्पर्धायां भारतस्य पराजयः एव। होलण्ट्सङ्घेन सह होकी स्पर्धायामपि भारतसङ्घः पराजितः।

उत्तरप्रदेशस्य गाजियाबादजनपदे गतरात्रौ भाजपानेतुः  ब्रजपालतेवतियावर्यस्योपरि गोलिकाप्रहारः
गोलिकाप्रहारेण ब्रजपालः तस्य सुरक्षाकर्मी च व्रणितौ, उभौ गभीरस्थितिमवाप्तौ | प्रकरणेsस्मिन् सप्तजनाः व्रणिताः ३ इति संसूच्यते| सम्प्रति नोएडायां फोर्टिस चिकित्सालये उभाभ्यामुपचारः सम्प्रचलति |
  ध्यातव्यमिदं यत्  ब्रजपाल तेवतिया भारतीयजनतापार्टीतिदलस्य वरिष्ठ नेता वर्तते , असौ 2012 तमे वर्षे  मुरादनगरविधानसभातः निर्वाचने भाजपायाः प्रातिनिध्यं कृतवान् |


कस्तूरिरङ्गन् रेखाः - आशङ्कां निवारयिष्यतीति प्रधानमन्त्री।
 नवदहली > कस्तूरिरङ्गन् रेखामधिकृत्य जायमानाः आशङ्काः निवारयितुम् आवश्यकः व्यवहारः स्वीक्रियते इति प्रधानमन्त्री। केरलीयान् क्रैस्तवसभानेतृन् प्रत्येव प्रधानमन्त्रिणा एवं सूचितम्। न्यायालयपक्षतः जायमानः विरोधः तथा सन्नद्धसङ्घानां निस्सहकरणमनोभावः च समस्यापरिहारचर्चायै विघातः भवतीति प्रधानमन्त्रिणा उक्तम्। पश्चिमपर्वतततिसानुभप्रदेशानां संरक्षणाय समर्पितायाः कस्तूरिरङ्गन् रेखायाः उपरि उन्नीताः आशङ्काः परिहरणीयाः इति निवेदनं समर्प्य केरलीयाः क्रैस्तवसभानेतारः राज्य-लोकसभयोः केरलीयाः सामाजिकाः च प्रधानमन्त्रिणा सह चर्चाम्‌ अकुर्वन्।