OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, September 15, 2016

भीकरान् विरुध्य- भारत-अफ्गानयोः सन्धि:।
 नवदेहली > भारतस्य प्रधानमन्त्रिणा मोदिवर्येण सह अफ्गानस्य राष्ट्रपतिना अषरफ् गनिना कृतायां चर्चायामेव अयं निश्चयः जातः। भीकरान् विरुध्य प्रवर्तनानि संयुक्ततया आयोजयतुमेव निश्चितवन्तौ । भीकराणां संरक्षणं आतङ्कवादिनां पोषणं च ये कुर्वन्तः सन्ति ते प्रतिनिवर्तनीयाः इति नेतारौ प्रचोदितौ। प्राथमिकसौविध्यविकासः, स्वास्थ्यं, कृषिः, ऊर्जं, शिक्षा, स्त्रीशक्तीकरणम् एतेषु विषयेषु अफ्गानेन सह भारतस्य साह्यम् उक्तवान् मोदिवर्यः।

अधित्यकायाम् अशान्तिः अनुवर्तते।
श्रीनगरं > जम्मु-काश्मीरे जनसञ्चय-रक्षिपुरुषवृन्दयोः संघर्षे लाघवं न जातम्। तयोर्मिथः संग्रामे पुरुषद्वयं मृतम्।अनेन सार्धैकमासाभ्यन्तरे सुरक्षासेनया सह संघर्षे हतानां संख्या ७८ अभवत्। इदानीं  नैकेषु जनपदेषु निरोधनाज्ञा प्रख्यापिता।

 केरळतःअप्रत्यक्षाः ऐ एस् प्राप्तवन्तः- ऐ एन् ए स्थिरीकरणम्।
नवदिल्ली > गतजूण् मासे केरलतः अप्रत्यक्षाः २२ जनाः इस्लामिक् स्टेट् नामिकायाः भीकरसंस्थायाः अफ्गानिस्थानस्थं शक्तिकेन्द्रं  प्राप्तवन्तः इति ऐ एन् ए संस्थया स्थिरीकृतम्। इरान् मार्गेण एव ते अफ्गानिस्थानं प्रापयन्नित्यपि स्पष्टीकृतम्।
      ऐ एस् बन्धमारोप्य यास्मिन् मुहम्मद् साहिद् नामिका युवती मासैकस्मात् पूर्वं गृहीत्री आसीत्। एतां प्रति कृतेन परिपृच्छनेनैव तेषाम् अफ्गानिस्थानप्राप्तिः स्पष्टीकृता।