OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, October 20, 2016

ओट्टिसं नाम रोगबाधितानां रोगमुक्तये षेेक्स्पियर् नाटकानि  
 वाषिंगटण> षेक्स्पियर् नाटकानां तालात्मकभाषा, आङ्गिकाभिनय: च ओट्टिसबाधितबालकानां कुशलतां अवाप्तुं उपकरिष्यति इति अनुसन्धान फलम् । षेक्स्पियर वर्यस्य विश्वप्रसिद्ध: "द टेम्पट्" नाम्ना नाटकेन ओट्टिसबाधितबालकेषु कृत: गवेषणफलं भवत्येतत्। अस्य नाटकस्य सविशेषभाषाप्रयोग: तालात्मकता,आङ्गिकाभिनयः इत्यादयः तेषु बालकेषु परिवर्तनं उत्पादयन्ति इति दृष्टम्। अमेरिकादेशस्य ओहियो स्टेट विश्वविद्यालयलयस्थाध्यापकस्य प्रो.मार्क.जे. टासे महोदयस्य नेतृत्वे आसीदनुसन्धानम्।

केरळम् अत्यनावृष्टिभीत्याम्।
कोच्ची>केरळम् अत्यधिकाम् अनावृष्टिम् अभिमुखीकुर्वदस्ति। मण्सूण् वर्षासु अस्मिन् संवत्सरे प्रतिशतं चतुस्त्रिंशदः न्यूनता अभवदिति केन्द्रजलविभवविकसनसंस्थायाः पठने स्पष्टीकृतम्। आगामि तुलावर्षा अनुकूलतया भविष्यति तर्ह्यपि जललभ्यतायां न्यूनता भविष्यति ।
    इटुक्की वयनाट् पालक्काट् जनपदेषु केवलं प्रतिशतं पञ्चषष्ठिपरिमितं वर्षा एव लब्धा। एतेषु स्थानेषु केदाराः शुष्यन्तः सन्ति। जलाशयेषु जलवितानम् अतिशयेन अधोगच्छति।

पाठ्यपद्धत्यां कृषिपाठः।
अनन्तपुरी> आगामि अध्ययनवर्षादारभ्य केरलराज्यस्य पाठ्यपद्धत्यां कृषिः सविशेषरूपेण अन्तभूयेत इति मन्त्री वि एस् सुनिल् कुमारः विधानसभायै न्यवेदयत्। प्रथमकक्ष्यायाः अारभ्य कृषिपाठः भविष्यति। कृषिज्ञानं विना दशमीकक्ष्याम् पारं गन्तुं येन केनापि छात्रेण न शक्यत इति तेनोक्तम्।