OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, October 31, 2016

उपग्रहविक्षेपणे नूतनचरितं विरच्य इस्रो

नवदेहली > एकस्मिन्  आकाशबाणे ८३ उपग्रहान् संस्थाप्य उपग्रह विक्षेपणे नूतनचरितं निर्मातुम् उद्युक्तः भवति ऐ.एस्.आर्.ओ संस्था। एतदर्थं नूतनी योजना आयोजिता इति अस्याः संस्थायाः नियन्ता राकेष् शशिभूषणः अवदत् ।
आगामि संवत्सरे क्रियमाणे प्रथमे विक्षेपणे एकाशीति (८१) वैदेशिकोपग्रहाः द्वौ भारतोपग्रहौ च भवन्ति। सप्तदशाधिक विंशतिशत तमे जनुवरिमासे विक्षेपणीया इत्येव लक्ष्यम् । अस्मिन् विक्षेपणे अधिकाः सूक्ष्मोपग्रहाः एव।

येशुदेवस्य समाधिस्थानम् अनावृतम्।
जरुसलेम् > येशुदेवस्येति विश्वास्यमानं समाधिस्थानं शताब्देभ्यः परम् अनुसन्धानार्थम् अनावृतम्। पुरातने जरुसलेमे पुनरुत्थृतदेवालये एव येशुदेवस्य अन्त्यविश्रान्तिस्थानं वर्तते। आतन्से विद्यमानः साङ्केतिक विश्वविद्यालयः नेषणल् जियोग्रफिक् सोसईटी इति संस्था च सम्भूय एव  पर्यवेषणं कर्तुं निरचिनोत्।
     षट्विंशत्यधिकत्रिशततमे क्रिस्त्वब्दे रोमासाम्राज्यस्य चक्रवर्तिनः कोण्स्टन्टयिन् इत्यस्य मात्रा समाधिस्थानं प्रथमं सन्दृश्यते स्म। अग्निबाधायां विशीर्णं स्थानं १८०८-१८१० काले पुनरुद्धृतम्।
    येशुदेवं शायितमिति विचार्यमाणं प्रतलं शास्त्रीयपठनविधेयं करिष्यति।