OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, November 29, 2016

 व्याजधनं प्रकाशयितुम् एकोsपि सन्दर्भः।
नवदिल्ली> येषां सकाशे असाधुपत्ररूप्यकसहितानि व्याजधनानि सन्ति तादृशधनानि प्रकाशयितुम् एकवारमपि समयः केन्द्रसर्वकारेण लभ्यते। याथातथ्यप्रमाणं विना सम्भृतानि ५००, १००० रूप्यकाणां धनपत्राणि डिसम्बर् ३०तम दिनाङ्कात् पूर्वं स्वमेधया प्रकाश्य वित्तकोशेषु निक्षिप्यन्ते तर्हि केवलं ५० शतमानपरिमितं शुल्कं देयम्। अथवा ५० शतमानपरिमितं शुल्कं दत्वा प्रधानमन्त्रिणःगरीब् कल्याण् योजनानुसारं प्रतिज्ञापत्रेषु निक्षेप्तुम् अर्हन्ति। किन्तु निक्षेपाणां स्रोतः यदि न प्रकाश्यते , अधिकृतैः अवगम्यते तर्हि शुल्क-दण्डन रूपेण ९० शतमानपरिमितं दातव्यम्।

अवैधधनप्रकरणे केंन्द्रप्रशासनस्य महत्त्वपूर्णनिर्णयः
नवदिल्ली>अवैधधनप्रकरणमालक्ष्य केन्द्रप्रशासनेन महत्त्वपूर्णपदक्षेपं विधाय आयकरविधौ  संशोधनार्थं लोकसभायां  विधेयकमेकमुपस्थापितम्। नवंबरमासस्य अष्टमदिनानन्तरं सञ्चितावैधधनस्योपरि प्रतिशतं पञ्चाशतमित: करदण्डः भविष्यति, यस्य प्रतिशतं पञ्चविंशतिमितं धनं निर्धन-कल्याण-योजनायै प्रयोक्ष्यते। शेष-धनस्य प्रत्यावर्तनं वर्षचतुष्ट्यानन्तरं भविष्यति , अघोषित-आयस्य स्वत: प्रकटनाभावे प्रतिशतं 85 करः प्रदेयो भविष्यति|

 वैद्युतिकादानप्रदान-सौध्यविषयिणी कार्यशाला
नवदिल्ली>प्रधानमंत्रिणः नरेंद्र मोदिनः cashless transaction इति  हस्तधनविनिमयाभावसमाह्वाने प्रधानमंत्री कार्यालयस्य वरिष्ठाधिकारिभिः विशेषोद् बोधनं प्रारब्धम् ।अधिकारिभिः दैनिकोपयोगाय वैद्युतिकादानप्रदान-सौविध्यविषयिणी एका कार्यशाला समायोजिता। अपि च  वित्तमंत्रालयेन वैद्युतिकादानप्रदानसौविध्यविषये जनानां परिचयः कारितः।

 वेंकैया नायडू  वामदलेषु वाक्शूलान् आरोपितवान्।
केंद्रीय सूचनाप्रसारण मंत्री वेंकैया नायडू कांग्रेसदलीयानां वामदलीयैः मिलित्वा विमुद्रीकरणं विरुद्य कृतभारतपिधानप्रत्यूहम् अधिकृत्य वाक्शरैः तान् विरुद्ध्य ताडितवान् । प्रोक्तं च यत् एतानि दलानि जनतावञ्चकदलानि। अतः पृथक्तिरस्करणीयानि । संसदि कार्यान्वयनाय च दलानां समाह्वानं कृतम् ।