OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, February 27, 2017

राष्ट्रं तन्त्राधिगमयुगं प्रति प्रधावति- मन की बात कार्यक्रमे प्रधानमन्त्री।
नवदेहली>चतुरधिकैकशतान् उपग्रहान् समाहत्य विक्षिप्य ऐ एस् आर् ओ ऐतिहालसिकं प्राधान्यं प्रप्राप। सः स्तुत्यर्हमस्तीति प्रधानमन्त्री नरेन्द्रमोदी अवोचत्।तेषु कैर्टोस्टाट् श्रेण्याम् अन्तर्गतम् उपग्रहं कृषकाणाम् अत्यन्तम् उपकारकमिति तैः उक्तम्।स्व प्रतिमास आकाशवाणी कार्यक्रमं मन की बात कार्यक्रमं जनान् अभाषयन् आसन् ते।
  उपग्रहविक्षेपेणेन सह तस्य कर्मेषु आद्यन्तं प्रयतन्त्यः अस्माकं प्रगल्भवत्यः युवत्यः शास्त्रकारिण्यः सन्ति।अत एव एतत् दौत्यं अतीव मोददायकमिति तैः उक्तम्।अस्माकं समाजम् अतिशीघ्रं तन्त्राधिगमयुगं प्रति प्रधावति।दूरवाणीमुपयुज्य आर्थिकविनिमयरीतयः राष्ट्रं अभ्यसन् अस्तीति सः अयोजयत्।

व्याज-रुप्यकपत्राणि विनिमय-यन्त्रात् (ATM) लब्धानि
नव दिल्ली > एस् बी ऐ वित्तकोशस्य धनविनिमययन्त्रात् द्विसहस्रसंख्यायाः व्याजरुप्यक-पत्राणि लब्धानि। उत्तरप्रदेश् राज्यस्य षहान् पुर देशस्थ ATM यन्त्रात् एव एतादृशानां रुप्यकपत्राणाम् उपलब्धिः। पुनीत् गुप्ता नामकेन विनिमययन्त्रात् गृहीतेषु पञ्चसु द्विसहस्राणां रुप्यकपत्रेषु चत्वारि पत्राणि व्याजानि आसन्।
कतिपयदिनात् पूर्वं नवदिल्यामपि एतादृशा घटना जाता। तद्देशीयानां प्रतिषेध प्रकाशनानन्तरम् आरक्षकैः एकः ग्रहीतः। एषः एव यन्त्रे अन्तिमं धनपूरणं कृतवान्।

भारतसंस्कृतिः वैविध्याधिष्ठिता - नरेन्द्रमोदी।
कोयम्पत्तूर्> भारतसंस्कृतेः सार्वकालिकसविशेषता अस्ति वैविध्यमिति प्रधानमन्त्री नरेन्द्रमोदी। तमिल् नाट् राज्ये कोयम्पत्तूर् जनपदे वेल्लियङ्किरि पर्वतसानुप्रदेशे विद्यमाने ईषा योगकेन्द्रे स्थापितस्य द्वादशोत्तर-शताधिकपादसमुन्नतस्य आदियोगिनः [भगवतः परमेश्वरस्य] प्रतिमाम् अनावरणं कृत्वा भाषमाण आसीत् मोदिवर्यः।
    "परमेश्वरस्य गले पन्नगः विभूषणमस्ति। स्वस्यापत्ययोर्मध्ये गणेशस्य वाहनं मूषकः, षण्मुखस्य वाहनं मयूरश्च। मूषकसर्पमयूराणां शत्रुता विदिता एव। किन्तु परमेश्वरस्य अपत्यभावेन एते ऐकमत्येन वर्तन्ते स्म। एतत् वैविध्यं स्वांशीकर्तुम् अस्माकं संस्कृतिः अस्मान् उपदिशति - प्रधानमन्त्री अवदत्"।
       ईषा योगकेन्द्रस्य आश्रमम् अवलोक्य आरत्यादिषु कार्यक्रमेषु भागं गृहीत्वा एव मोदिवर्यः वेदिकां प्राप्तः। योगानुष्ठानमधिकृत्य ग्रन्थस्य प्रकाशनमपि तेन कृतम्।
    योगविद्यायाम् आदियोगिनः योगदानं महत्तरमिति ईषायोगकेन्द्रस्य स्थापकः सद्गुरुः जग्गी वासुदेवः अब्रवीत्। राज्यपालः सि विद्यासागररावः , मुख्यमन्त्री एडप्पाटी पलनिस्वामी , केन्द्रमन्त्री पोन् राधाकृष्णः , पोण्टिच्चेरी राज्यपालिका किरण् बेदी इत्यादयः कार्यक्रमे सान्निध्यमकुर्वन्।

ऐ एस् संबन्धः - केरलात् अप्रत्यक्षेषु एकः हतः।
कासर्कोड् > केरलतः ऐ एस् नामिकायाः भीकरसंस्थायाः शिबिरं प्राप्तवत्सु द्वाविंशतिषु युवकेषु एकः हत इति बन्धुजनेभ्यः सूचना प्राप्ता।
    कासर्कोड् जनपदस्य पटन्ना प्रान्तीयः टि के हाफिसुद्दीनः एव गतदिने "ड्रोण् "नामकस्य स्वयंप्रेरितविमानस्य आक्रमणे हत इति "टेलिग्राम् मेसेञ्जर्" योजनद्वारा सन्देशः लब्धः। शिबिरवासिना अन्येन केनचित्  मित्रेणैव सन्देशः प्रेषितः। किन्तु घटना कुत्र सम्पन्नेति न स्पष्टीकृतम्। मृतदेहसंस्कारादिक्रियाः समाप्ताः इति सूचितमस्ति।
    हाफिसुद्दीनः हत इति वृत्तान्तम् आधारीकृत्य "एन् ऐ ए" तथा "रो" संस्थाभ्यां अन्वेषणम् आरब्धम्।

 वार्तामुक्तकानि
अगर्त्तला >अरुणाचलप्रदेशे तथा त्रिपुरायां च शनिवासरे भूकम्पः सञ्जातः। जीवहानिः द्रव्यहानिर्वा अजायत इति सूचना नास्ति। अरुणाचले भूकम्पः रिक्टर् मापिकायां ३.५ रेखितः । त्रिपुरायां तु ४ रेखितः।

चण्डीगड् > हरियानायां जाट् वर्गैः रविवासरे श्यामदिनम् आचरितम्। स्वसमुदायेन उन्नीतानि आवश्यकानि अङ्गीकर्तुं राज्यसर्वकारस्य विमुखतां विरुध्य आरब्धम् आन्दोलनं शनिवासरे २८ दिनानि अतीतानि।

राञ्चि > झार्खण्ड् राज्ये राञ्ची प्रविश्यातः पञ्च मावोवादिनः आरक्षकैः निगृहीताः। एतेभ्यः लघुलेखाः भुषुण्ड्यादि आयुधानि च प्रगृहीतानि।