OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, February 23, 2017

 पाकिस्थान् न्यायालये आत्मघात्याक्रमणं - सप्त मारिताः।
ताङ्गि>उत्तरपाकिस्थानस्थे चर्सदा जनपदे ताङ्गि प्रविश्यायां कस्मिंश्चित् न्यायालये संवृत्ते आत्मघातिसङ्घस्य आक्रमणे सप्त जनाः मारिताः , पञ्चदशाधिकाः व्रणिताश्च। न्यायालयाङ्कणम् अतिक्रम्य प्रविष्टवन्तः त्रयः भीकराः सुरक्षासेनां प्रति भुषुण्डिप्रयोगं कृतवन्तः ग्रनेड् शस्त्राणि विक्षिप्तवन्तः च। आक्रमणस्य उत्तरदायित्वं पाकिस्थान् तालिबानस्य जमा अत् उल् अह्रर् नामकेन विभागेन स्वीकृतम्। आरक्षकैः सह संघट्टने द्वौ भीकरौ मृतौ। तृतीयस्तु न्यायालयाद् बहिः स्वयमेव विस्फोटने भग्नीकृतः। अष्ट किलो.परिमितं स्फोटकवस्तूनि एकैकस्य भीकरस्य सकाशे आसन्निति सुरक्षाविदग्धैः निगदितम्।पाकिस्थानस्य प्रधानमन्त्रिणा नवास् षरीफेन आक्रमणमिदम् अपलपितम्।
सर्वासां समस्यानां समाधानं गीता
लखनऊ>संस्कृतभारत्या अवधप्रान्तान्तर्गतं लखनऊदक्षिणम् इत्यस्य तत्त्वावधाने २०-२२ फरवरी २०१७पर्यन्तं नाबार्डपरिसरे त्रिदिवसीय: गीताशिक्षकप्रशिक्षणं समग्रचिन्तनञ्चेति आवासीय: वर्ग: आयोजित:। वर्गेऽस्मिन् प्रायेण ३५ प्रतिभागिन: प्रशिक्षणं प्राप्तवन्त: येषु वित्तकोषाधिकारिण: आयुक्तचरा: अभियन्तार: व्यवसायिन: शोधच्छात्रा: वाक्कीलाश्चेत्यादय आसन्।
वर्गे गीतापारायणं व्याकरणस्वाध्याय: आकांक्षापद्धत्या गीतामन्त्राणां व्याख्या समत्वयोग: दैवीसम्पत् गीतारामचरितमानसयो: तुलनात्मकविमर्श: मोक्षमार्गश्चेति विषयेषु विशेषज्ञानामुद्बोधनानि च जातानि।
उद्घाटनसत्रे सभाध्यक्ष: दयानन्द इण्टरकॉलेज इत्यस्य प्रधानाचार्य: श्री राम उजागरशुक्ल: मुख्यवक्ता च संस्कृतभारत्या: उत्तरप्रदेशोत्तराञ्चलयो: सङ्घटनमन्त्री डॉ. सञ्जीवराय आसीत्। अवधप्रान्तस्याध्यक्षस्य श्री शोभनलाल उकिलमहोदयस्य सान्निध्यम् आसीत्।
समारोपसत्रे सभाध्यक्षपदं लखनऊविश्वविद्यालयस्य संस्कृतविभागाध्यक्षचर: डॉ. कृष्णकुमारमिश्र: मुख्यवक्तृपदं डॉ. कन्हैया लाल झा विशिष्टातिथिपदञ्च ज्योतिर्विज्ञान-विभागस्य सह- आचार्य: डॉ. विष्णुकान्तशुक्लोऽलञ्चक्रु: ।
वर्गस्य विविधसत्रेषु काशी गोरक्षपुरं कानपुरम् अवधश्चेति प्रान्तेभ्य: समागता अधिकारिण: डॉ. सञ्जीव राय: डॉ. कन्हैयालाल झा श्री शोभनलाल उकिल: श्री प्रकाश झा च प्रशिक्षणार्थिन उद्बोधितवन्त:।
वर्गस्य संयोजनं श्रीशीतल प्रसादवर्मा सहसंयोजनञ्च श्री सहदेवसिंह कुशवाह: कृतवन्तौ।

 नगरमार्गे महती अग्निबाधा - कोटिरूप्यकाणां विनष्टः।
कोष़िक्कोट्> केरलस्य कोष़िक्कोट् नगरस्थे मिठायित्तेरुव् नामके प्रशस्ते पैतृक संरक्षितमार्गे संञ्जाताया महत्या  अग्निबाधया एककोट्यधिकरूप्यकाणां नाशनष्टाः सम्भूताः। मार्गपार्श्वस्थे बहुश्रेणीभवने वर्तमाना तान्तवव्यापारशाला पूर्णतया भस्मीकृता। बुधवासरे प्रभाते सार्धैकवादने आसीत् अनलबाधा। जीवहानिः न सञ्जातः।