OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, February 28, 2017

क्षालनयन्त्रे पतित्वा बालकयुगलौ मृतौ।
नवदिल्ली> पश्चिमदिल्ल्यां रोहिणी प्रविश्यायां त्रिवयस्कौ युगलबालकौ क्षालनयन्त्रे पतित्वा अकालमृत्युं प्राप्तौ। शनिवासरे मध्याह्ने आसीदियं दुर्घटना। यन्त्रे जलं पूरयित्वा फेनकचूर्णं क्रेतुं मातरि बहिर्गतवति एव बालकौ यन्त्रान्तर्भागं पतितवन्तौ।
निमेषाणामाभ्यन्तरे प्रत्यागता माता वत्सलौ अन्वीक्षणं कृतवत्यपि न दृष्टवती। वृत्तान्तं ज्ञात्वा आगतस्य भर्तुः मार्गणे अपत्यौ क्षालनयन्त्रान्तःप्रपूरिते जले पतितौ दृष्टौ।  झटित्येव आतुरशालां प्राप्तावपि तौ स्वर्गस्थौ आस्ताम्। रोहिणी प्रविश्यायां प्रथमखण्डे अवन्तिका आवासीयप्रकोष्ठे वसतोः रवीन्दर् राखी दम्पत्योः वत्सलापत्यौ  निषान्तः नक्ष्या नामकौ एव हतभाग्यौ अभवताम्।  शिशूनां संरक्षणविषये पितृॄणाम् अवधानता कीदृशीं सूक्ष्मतामर्हति इति इयं दुर्घटना अङ्गुल्या निर्दिशति।

श्रीपद्मनाभस्वामिमन्दिरसमीपे महती अग्निबाधा।
अनन्तपुरी>केरले श्रीपद्मनाभस्वामिमन्दिरस्य अतिसुरक्षामण्डलपरिसरे रविवासरस्य प्रत्यूषे महती अग्निबाधा सञ्जाता। मन्दिरस्य उत्तरद्वारे वर्तमानस्य पत्रालयस्य द्वे भवने अग्निसात्कृते जाते।
     मन्दिरस्य नियन्त्रणप्रकोष्ठस्थे सि सि टि वि संविधिनद्वारा एव अग्निज्वलनं प्रथमं दृष्टम्। वृत्तान्तं ज्ञात्वा अग्निशमनसेनायाः एकादश अंशाः  आगत्य होरात्रयेणैव अग्निशमनं कृतम्। षण्मासेभ्यः पूर्वमपि मन्दिरस्य पूर्वगोपुरसमीपं वर्तितायां वस्त्रसम्भरणशालायामपि अग्निबाधा सञ्जाता।
    घटनामधिकृत्य समग्रम् अन्वेषणं करिष्यतीति घटनास्थानं प्राप्तवता मन्त्रिणा कटकंपल्लि सुरेन्द्रेण उक्तम्।

वन्यजन्तवः तं मनुष्यं प्रतीक्षन्ते।
केनिया>केनिया राष्ट्रस्य सावो वेस्ट् राष्ट्रीयोद्याने संवत्सरेषु सन्दर्शकाः न आगच्छन्ति।किन्तु अत्रत्य नित्यसन्दर्शकः जलमनुष्यः इति प्रथितः पाट्रिक् किलोण्सो म्वावुला। पार्श्व ग्रामस्य कृषकः अस्ति सः। अगोलतापनेन केनिया ज्वलन्नवसरे वनान्तर्भागस्थानां जन्तूनां जलानयनकर्म सः स्वयं स्वीचकार। एषः कृषकः प्रतिदिनं किञ्चित्कालं एतेषां वनजन्तूनां कृते जलानयनाय उपयुज्यते। भाटकारूपेण स्वीकृतेन यानजलेन त्रिदिनं ३००० ग्यालन् जलं सः जलसंभरण्यां आनयति। उष्णबाधिते भूमौ तस्य आगमनं प्रतीक्ष्य शताधिकाः वनजन्तवः श्रेण्यायन्ते। गजाः,वनमहिषाः, रेखाड्किताष्वाः च तेषु अन्तर्भवन्ति। पातुं कणमपि जलरहिते अस्मिन् कानने म्वावुला अस्ति वनस्स रक्षकः।
   वनाय तथा वनजन्तवे अतीव स्निह्यमानस्य म्वावुलस्य कर्माणि अधिकृत्य श्रुताः तिस्रः विदेशयुवतयः साहाय्यवाग्दानम् अकुर्वन्। तस्य कर्मभ्यः गो फण्ट् मी इति धनसमाहरणमपि प्रारभत। म्वावुलाय नवीन यानजलस्य विक्रयणमस्ति आगामि सोपानम्।