OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, March 21, 2017

आभारतं अप्राप्तकार्यरताः अभियान्त्रिकज्ञाः षष्ठि प्रतिशतम्।
 नवदेहली> राष्ट्रे प्रतिसंवत्सरं अभियान्त्रिक स्नातकोत्तीर्णेषु षष्टि प्रतिशतं अप्राप्तकर्यरताः सन्ति इति प्राविधिकशिक्षाविभागस्य सूचना। प्रति संवत्सरं अष्ट लक्षं छात्राः विविधेभ्यः प्राविधिकमहाविद्यालयेभ्यः बहिरागच्छन्ति। तेषु पञ्च लक्षं छात्राणां कार्यमेव न लभ्यते। एवं प्रति संवत्सरं विंशति लक्षं कर्यदिनानि राष्ट्रस्य नष्टं भवति।
प्राविधिकमहाविद्यालयानां मूल्यच्युतिः परिहर्तुं केन्द्रसर्वकारः प्रयत्नम् आरभत।तानि-
*२००८ जनवरि आरभ्य आराष्ट्रम् एक एव प्रवेशनपरीक्षा।
* शिक्षकाणां कृते वार्षिकप्रशिक्षणम्। न करोति चेत् संस्थायाः अड्गीकारः नष्टः भविष्यति।
*प्रतिसंवत्सरं पाठ्यक्रमस्य नवीकरणम्।
*छात्राणाम् अनिवार्यप्रशिक्षणम्।
*राष्ट्रीय परीक्षा सेवा द्वारा प्रवेशनपरीक्षा स्यात्। परीक्षायाः नाम स्यात् एन इ इ टी ऐ। नीट् परीक्षा अपि एषा संस्था एव करोति।
* प्रथमा परीक्षा २०१७ डिसंबर मासे अथवा २०१८ जनवरि मासे वा।
२०२२ तमेन प्राविधिकमहाविद्यालयेषु अर्धानां कृते राष्ट्रीय अड्गीकारपरिषदा अड्गीकारः दास्यति।
* छात्राणाम् स्तरोन्नतिः न भविष्यति चेत् संस्थायाः अड्गीकारः नष्टः भविष्यति।

भारते विद्यमाना: २३ विश्वविद्यालयाः व्याजा:, अधिकाश्च प्रवर्तते देहल्याम् ।।
नवदेहली> भारते प्रवर्तमानासु तन्त्रयन्त्रसाड्केतिककलाशालासु अधिका: अपि व्याजा: । देहल्यामेव ६६ कलालयानाम् अनुमति: नास्ति । साड्केतिककलालयेषु २७९अपि व्याजा:। बिरुददानाय एतेषाम् अधिकार: न भवति । इत: स्वीक्रियमाणबिरुदस्यापि मूल्यं केवलं पत्रमात्रं स्यात् । इतोपि २३ व्याज-विश्वविद्यालयेषु  ७ देहल्यामेव प्रवर्तते। गतमासे यु जी सी तथा ए ऐ सी टी च तासां व्याजानां  तेषाम् नामानि अन्तर्जालशृड्खलासु  प्रसिद्धीकृतवन्त:। तेषां विशदांशानि  तत्तद्राज्याणि च सूचितानि इति अधिकारिभि: व्यक्तीकृतम् । तेलड्काना पश्चियबड्गाल: उत्तरप्रदेश: महाराष्ट्रा एतेष्वपि व्याजविश्वविद्यालयाः न विरला:। आगामिनी संवत्सरे एतेषु प्रवेशनं न दीयादिति एतेभ्य: ए ऐ सी टी ना निर्देशोपि दत्त:। प्रवेशनं एतेषु  निषिद्धमिति संसूच्य पत्रमाध्यमेषु  च वार्ता: दत्ता:। व्याजविश्वविद्यालयानां प्रवर्तनानि आधारीकृत्य अन्वेषणं कृत्वा विधिनिर्णयाय  राज्याणां कृते निर्देश: दत्त: इति मानवशेषिविकसनमन्त्रालयेन राज्यसभायां व्यक्तीकृतम् ।