OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, April 24, 2017

यु एस् आक्रमणात् बहुवारं रक्षित:  अल् खायिदानेता सवाहिरि: कराच्याम् ।।        
वाषिङ्टण् >  ईजिप्ट् वंशज: अल् खायिदानेता अयमान् अल् सवाहिरि:(६६) पाकिस्थानरहस्सङ्घटनाया: ऐ एस् ऐ इत्यस्या: संरक्षणे कराच्यां तिरोभूय वसति इति यु एस् आवेदनम्। २००१ तमे अफ्घानिस्थानात् यु एस् सेनया अलखायिदे पलायिते सति तत: प्रभृति सवाहिरि: पाकिस्थानसंरक्षणे वसन् अस्तीति 'न्यूस्वीक्' अभिप्रैति। रहस्यकेन्द्रं कराची एव भवितुम् अधिकसाध्यता, किन्तु कार्येस्मिन् व्यक्तसूचना: अनुपलब्धा: इत्यपि यु एस् विदग्धा: अभिप्रयन्ति। पाकिस्थानस्य अबट्टाबादे रहस्यवाससमये एव अलखायिदा मेधावी उसाम बिनलादन: २०११ मई  २ दिनाङ्के यु एस्  कमान्डो सैन्यस्य हठादाक्रमणे मृतवान्। बिनलादात्परम् अलखायिदाया: नेता सवाहिरि: एव। तं लक्षीकृत्य  नैकानि ड्रोणाक्रमणानि यु एस् सेना पाक् -अफ्घानसीमायां अकरोत्। अन्तिमाक्रमणं प्रवृत्तं २०१६ जनवरिमासे। तदा सवाहिरे: समीपस्थप्रकोष्ठ:  मिसैलशस्त्रै: छिन्नभिन्न: जात:। परं नेता तु रक्षां प्राप्तवान्। अफ्घानसर्वकारै: सह समाधानचर्चायां भूयमानायां तालिबानशक्तिकेन्द्रेषु अलखायिदाया: सवाहिरेर्वा स्थानं नास्ति अधुना। पाकिस्थानात्  विश्वस्तस्रोतभ्य: वार्ता नि:सृता इत्यपि सूचना अस्ति। बिनलादन: ६ वर्षाणि यावत् पाकिस्थाने रहस्यकेन्द्रे वासं कृतवान्। किन्तु कति वर्षाणि यावत् तत्र उषितवान् इत्यस्य व्यक्तसूचना नोपलभ्यते। पाक् रहस्यसङ्घटना ऐ एस् ऐ  बिन् लादं ६ वर्षाणि यावत् रहस्यकेन्द्रे संरक्षितवती  इति बी बी सी  अन्वेषणे आवेदितम्।  अबट्टाबादे पाक्सैनिक अकादमीसमीपे आसीत् बिनलादस्य वास:।।