OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, May 1, 2017

नवभारतम् अतीवप्रधानव्यक्तीनां न ; तत्र सर्वे प्रधाना:- प्रधानमन्त्री मोदी।
      नवदिल्ली> अतीवप्रधानव्यक्तिसंस्कारं  (वी ऐ पी)  परिसमापयितुं  सर्वकाराणां पक्षत:  सजीवसज्जतासु चाल्यमानासु ; वी ऐ पी इति पदस्य  स्थाने समानं नूतनं च पदमाविष्कृत्य प्रधानमन्त्री नरेन्द्रमोदी ।केवलं केचन जना: अतीवप्रधानव्यक्तित्वेन परिगण्यमाने सति ; 'वी ऐ पी ' इति आशयस्य स्थाने  '' ई पी ऐ ''{ every person is important } इति आशयं प्रधानमन्त्री नरेन्द्रमोदी पुरस्कृतवान् । ई पी ऐ  इति आशयानुसारं सर्वेपि व्यक्तय: प्रधाना: । प्रतिमासाकाशवाणीप्रभाषणकार्यक्रमस्य 'मन् की बात्'  इत्यस्य नूतनसम्पुटे  एव समभावनाया: नवसन्देशेन सह  प्रधानमन्त्रिण: रङ्गप्रवेश: । जायमानस्य नवभारतस्य चिह्नेषु सर्वत्र  '' ई पी ऐ '' भविष्यति इति च तेन सूचितम् ।     'अङ्कनभारतम् ' '( डिजिटल् इन्डिया )  इत्याशयेन समं  मोदिना एव प्रचार्यमाण: प्रयोग: भवति ' नवभारतम् '। प्रधानव्यक्तीनां वाहनेषु नील रक्त बीकण दीपानाम् उपयोगं निरुध्य वी ऐ पी संस्कारं प्रतिरोद्धुं  केन्द्रसर्वकारै: क्रियमाणकार्यक्रमाणां पश्चात्तले  एव  एतस्य समानपदत्वेन  ई पी ऐ  प्रयोगमुन्नीय मोदिन: परिष्कार: । राष्ट्रे  स्थित: वी ऐ पी संस्कार: भारतस्य शाप: एव । बीकणरक्तदीपा:  केवलं  वाहनेषु स्थापयन्ति चेदपि  जनानां शिरसि अपि चिह्नमेतत्  मुद्रितं तिष्ठति इति अनुभवात् बोध्यमित्यपि स: उक्तवान् ।वी ऐ पी संस्कारस्य आरम्भ: एव अनेन अभवत् । वाहनेभ्य: यथा रक्त- बीकणदीपा: निष्कासिता:  तथा जनानां शिरोभ्यश्च वी ऐ पी संस्कारस्य रक्तदीपा: निवारणीया: । वी ऐ पी स्थाने सर्वेषां तुल्यतादायकस्य ई पी ऐ इति पदस्यैव नवभारते स्थानम् । राष्ट्रस्य १२५ ( पञ्चविंशत्यधिकशतम् ) पौराश्च समप्रधाना: । सर्वे वयं समभावनया यदा वर्ताम: ; स्वप्नसफलताकाल:  नातिविदूरे  इत्यपि तेन सूचितम् । अन्तरिक्षव्यतियानम् आशङ्काजनकं ; प्रकृते: परिवर्तनानि ज्ञात्वा जीवितव्यम् इत्यपि प्रधानमन्त्री प्रभाषणेन व्यक्तीकृतवान् ।युवजनै: "भोजनदुर्व्यय: मास्तु " इति सन्देश: स्वीकृत: इत्यत्र सन्तोष: अस्ति । ग्रीष्मविरामकाले  बाला:गृहात् बहि: स्थानानि पश्येयु:  नूतनकार्याणि पठेयु: इत्यपि प्रधानमन्त्री  अभिप्रैतवान्