OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, May 14, 2017

सुवर्णादपि मूल्यं वर्तते एतादशानां शिक्षकाणाम्॥
            विशेषवर्ता - रम्या पि. यु
लोके अतिमाननीया वृत्तिरेव  अध्यापनं नाम ।स्वस्य छात्राणां कृते कियन्मात्रं गन्तुं शक्यते तावता गच्छन्त: एव उत्तमाध्यापका: । छात्राणाम् पठनसौकर्यसज्जतायै  मन्त्रिणाम् , शिक्षाविभागाधिकारिणां वा द्वारकुट्टनम् अकृतवन्त: शिक्षकाश्च विरला: । किन्तु छात्राणां कृते  अङ्कनयुतसमर्थकक्ष्यानिर्माणाय   (डिजिटल् स्मार्ट् क्लास्रूम् ) स्वीयसुवर्णाभरणानि  विक्रीतवत्या: कस्याश्चन अध्यापिकाया: कथा श्रवणीया वा ? तमिलनाटे तीण्टिवने कम्पटुग्रामे ग्रामसभायूणियन् प्राथमिकविद्यालये आङ्गलेयाध्यापिका अन्नपूर्णा  मोहन: एव सुवर्णं विक्रीय तृतीयकक्ष्याछात्राणां कृते लोकोत्तरपठनसौकर्यं सज्जीकृतवती । यं कमपि स्वाश्रयविद्यालयम् अतिशेते अन्नपूर्णाया: नेतृत्वे सज्जीकृता सर्वकारीयविद्यालयस्य अस्य आधुनिकसौकर्यै: सहिताङ्कनसमर्थकक्ष्या । आङ्गलेयाध्यापकानां कृते तमिलनाट् सर्वकारेण प्रदत्तं उच्चारणशास्त्रपरिशीलनम् अन्नपूर्णाया: जीवने परिवर्तनम् आनयत् ।परिशीलनानन्तरम् स्वीयान् छात्रान् अन्नपूर्णा उच्चरणशास्त्रमनुसृत्य ( फोणटिक्स् ) पाठयितुमारभत । छात्रा: समर्थाश्चेदपि  आङ्गलेये प्रावीण्याभाव:  तेषाम् पठनम् बाधते इति ज्ञानं यदा आगतं तदा आरभ्य आङ्गलेयपाठनाय अन्नपूर्णा  नूतनमार्गान् उपस्थापितवती ।उच्चारणशास्त्रम् अनुसृत्य  नूतनपरिष्कारै: सहितम् आङ्गलपठनं  कक्ष्यायाम् अद्भुतावहम् परिवर्तनमेव अजनयत् । अध्यापनस्य नूतनरीती:  मुखपुस्तकद्वारा ( फेस् बुक् ) अन्नपूर्णया  तत्र उपस्थापनस्य पश्चात्तले लोकस्य नानाभागेभ्य: अभिनन्दनानि प्रवहितानि  । अन्नपूर्णाया: छात्रान् अन्विष्य बाड्मिन्टण् राकट् आदीनि पुरस्काराणि , तथा रूप्यकावेदनपत्राणि ( मणि ओर्डर् ) चागतानि ।  एतेन छात्राणां कृते लोकोत्तरसौकर्ययुता अङ्कनसमर्थकक्ष्या  सम्माननीया  इति अन्नपूर्णया निश्चय: कृत: । अङ्कनसंविधानानां साहाय्येन छात्रा: समर्था: पठित्वा अनर्गलनिर्गलम् आङ्गलेयम् भाषयेयु: इति अध्यापिकाया: आग्रह:  । आधुनिककालघट्टेस्मिन्  एतादृशाङ्कनसमर्थकक्ष्या  अनिवार्या इत्यपि  अन्नपूर्णा चिन्तयति । स्वस्यछात्राणां  कृते  परीक्षितं विजयं प्राप्तं च उच्चारणशास्त्रानुसारम् पठनतन्त्रम्  तमिलनाटे सर्वेषु विद्यालयेषु अपि अनुवर्तिष्यते इत्येव छात्रान् पुत्रतुल्यं स्निह्यन्त्या: एतस्या:  अध्यापिकाया: प्रतीक्षा ।