OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, May 29, 2017

ई वी एम्   दायित्वकाहलस्य अन्तिमदिनाङ्क: -प्रतिसन्धिम्  न स्व्यकुर्वन्  राष्ट्रियदलीया:
नवदिल्ली>  वैद्युतनिर्वाचनयन्त्रस्य ( ई वी एम् ) कार्यक्षमताप्रदर्शनाय कृतस्य श्रमस्य भागतया  निर्वाचनसमित्या चाल्यमाने  ई वी एम् दायित्वकाहले भागस्वीकाराय अपेक्षां दातुमद्य अन्तिमदिनाङ्क: । किन्तु एतावता केपि अपेक्षां न समर्पितवन्त:  इति मुख्यनिर्वाचनसमित्या: समीपकेन्द्रै: ज्ञापितम् । निर्वाचनयन्त्रेषु व्यापकतया  दुर्विनिमय:वर्तते इति आरोपणम् औद्योगिकरीत्या  व्यक्तीकर्तुमेव  एवं दायित्वस्वीकार: ।  सप्त अङ्गीकृतराष्ट्रियदलान्  नवचत्वारिंशत् राज्यदलान् च  एतदर्थम् निर्वाचनसमित्यधिकारिण:  निमन्त्रितवन्त: । जून्  तृतीये आरभ्य  पञ्चदिनात्मकं यावत् चाल्यमाने ई वी एम् चालञ्च् कीर्यक्रमे भागं वोढुम् इच्छन्त: मई षड्विंशत्याम् सायम् पञ्चवादनात् पूर्वम् अपेक्षां दद्युरिति निर्देश: । आम् आदमी दलीया: एव आरोपणम् उन्नीतवन्त:।  परीक्षणेस्मिन्  उपयुज्यमानसङ्गणकेषु , मातृफलकेषु परिवर्तनानि अपेक्षितानि इति  आम् आदमी दलस्य अपेक्षां  निर्वाचनसमिति:  व्याक्षिपत् । परिवर्तने कथञ्चित् कृते तत्र प्रकृतिनिर्वाचनयन्त्रं च  न भवेदिति च निर्वाचनसमित्या ज्ञापितम् । पूर्वं दिल्ली नियमसभायाम् आम् आदमी दलीया: निर्वाचनयन्त्राणि  चूषणं कृत्वा प्रादर्शयन् । किन्तु एतानि समित्या: नैवेति निर्वीचनसमित्या सूचितम् । कृत्रिमयन्त्राणि आसन्निति समित्या: वाद: विमर्शनञ्च । जूण् मासे चाल्यमाने परीक्षणे प्रतिदलेभ्य: त्रयाणामेक: सङ्घ: भागं वोढुमर्हति । विदेशीयविदग्धानां  अनुमति: निषिद्धा ।पञ्चराज्येभ्य: आनीतेभ्य:  निर्वाचनयन्त्रेभ्य:  चत्वारि एकैकसङ्घ: चेतुमर्हति । कृत्रिमं विना  कार्यक्षमताप्रदर्शनाय चतुर्घण्टात्मक: समयोपि दत्त: वर्तते ।।