OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, May 14, 2017

तलाखत्रयम् अतिनीचः अनभिलषणीयः विवाहबन्धविच्छेदनमार्गः - सर्वोच्चन्यायालयः। 
नवदिल्ली > विवाहबन्धविच्छेदनाय इस्लामधर्मानुयायिभिः पुरुषैः  अद्यापि अनुवर्तमानः तलाखत्रयसम्प्रदायः मृत्युदण्डवत्  अतिनीचः अनभिलषणीयश्चेति सर्वोच्चन्यायालयेन निरीक्षितम्। पञ्गाङ्गयुक्तस्य शासनसंविधाननीतिपीठस्य पुरतः आरब्धे त्रितलाखमधिकृत्य न्यायवादे आसीदिदं निरीक्षणम्। किन्तु अयं सम्प्रदायः नियमविधेयः इति विचार्यमाणः कश्चन समूह अद्यापि वर्ततेति नीतिपीठेन सूचितम्।
    पाकिस्थान् अफ्गानिस्थान् मोरोक्को सौदि अरेबिया इत्यादिषु बहुषु इस्लामराष्ट्रेषु तलाखत्रयं निरोधितमिति अमिक्कस् क्यूरिरूपेण वादे भागभागित्वं कृतवता सल्मान् खुर्षिद् वर्येण उक्तम्।
     तलाखत्रयरूपेण विवाहबन्धविच्छेदनं कर्तुं केवलं पुरुषाणामेव अधिकारः अस्ति। अत एव एतत् लिङ्गपरं विवेचनमस्तीति वादः जातः। न्यायवादः सोमवासरे अनुवर्तिष्यते।