OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, May 14, 2017

इन्डेनेष्याया: तीरे भीमाकारस्य अज्ञातजीविन: जडः।
जकार्ता> समुद्रतीरेषु अज्ञातजीविनां मृतदेहा: समुद्गता: भवन्ति इति वार्ता: लोकस्य विभिन्नकोणेभ्य: श्रूयन्ते । नूतनी एतादृशी काचन वार्ता इन्डोनेष्याया:। मई दशमदिनाङ्के  हुलूङ्समुद्रतीरे  वीचीप्रभावेण समुद्गत: भीमाकारजीविन: जड:  एव परिभ्रान्तिं तथा कौतुकं च अजनयत् । ग्रामीणा: विचित्रजन्तो: जडम् प्रथमं दृष्टवन्त:। समुद्रजलवर्णं सपदि रक्तवर्णं समभवत्  इत्यपि ते निरीक्षितवन्त: । गजशरीरात् परं बृहदाकारकमासीत् जीविन: मृतदेह:। किन्तु कस्य जन्तो: मृतदेह: अयमिति प्रत्यभिज्ञातुं ते अशक्ता: अभवन्। एतादृशमेकं जीविनम् अधिकृत्य पूर्वज्ञानं च कस्यापि नास्ति । पञ्चदश मीटर् मितदैर्घ्यम् प्राय: पञ्चत्रिंशत् टण् मित: भार: च अस्य जीविन:  वर्तते इति सूचना । असाधारणबृहदाकारकत्वयुक्त: " कणव " विभागस्थस्य जीविन: भीमाकारस्य तिमिङ्गिलस्य वा जड: भवितुमर्हति इति जन्तुशास्त्रज्ञानाम् प्राथमिकनिगमनम् । सामान्या: शास्त्रज्ञा: एवं सहस्राधिका:  जडसन्दर्शका:।  इदानीम् एतस्य दृश्यचित्राणि माध्यमेषु व्यापकतया  प्रचरन्ति ।