OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, May 11, 2017

भारतस्य वर्धनसूचिकाङ्क: ७.७  प्रतिशतम् भविष्यति इति ऐ एम् एफ्। 
वाषिङ्टण:> चलत्साम्पत्तिकवर्षे - २०१७ - २०१८ (सप्तदशोत्तरद्विसहस्रम् - अष्टादशोत्तरद्विसहस्रम्) भारतेन ७.२% (सप्त दशांशं द्वे प्रतिशतम् ) वर्धनम् आर्ज्यते तथा च २०१८ - २०१९ ( अष्टादशोत्तरद्विसहस्रम् -  नवदशोत्तरद्विसहस्रम् ) साम्पत्तिकवर्षे भारतस्य वर्धनसूचिकाङ्क: ७.७% ( सप्त दशांशम् सप्त प्रतिशतम् ) प्रति  कूर्दिष्यते इति च अन्ताराष्ट्रनाणकनिधे: ( ऐ एम्  एफ् ) आवेदनम् । विपण्या: कार्यक्षमतादृढीकरणाय  दीर्घकालाधारेण घटनापरा:  प्रतिसन्धी: परिवर्तयेत् इति च ऐ एम् एफ्  निर्देश: ।  राष्ट्रनाण्यरूपविनिमयपरिष्करणेन सह राष्ट्रे  आविर्भूतात् रूप्यकदौर्लभ्यात् उद्भूता: तात्कालिकरोधा:  सप्तदशोत्तरद्विसहस्रतमे  क्रमानुगतं लुप्ता:  भविष्यन्ति  इत्यपि स्वस्य प्रादेशिक धनतत्व बहिरालोकने  ( रीजणल् इकणोमिक् औट्लुक् ) ऐ एम् एफ् संस्थया व्यक्तीकृतम् । विनिमयेषु विद्यमानानि ८६ % ( षडशीति प्रतिशतम् )  रूप्यकाणि  झटिति निरुध्य कृतं साम्पत्तिकपरिष्करणं स्वकार्योपभोगेषु सारवत्तया प्रतिफलितमभवत् । एतत् सामान्यस्थितिम् प्रापयितुं चलद्वित्तीयवर्षे  शक्नुयाम इति प्रतीक्षापि  संवेद्यते ऐ एम् एफ् संस्थया । भारतीयवित्तकोशसंविधानेन अभिमुखीक्रियमाणा: प्रतिसन्धय:ह्रस्वकालं यावत् ॠणवर्धनेषु  प्रतिफलिष्यन्ति इत्यपि संस्थया सूच्यते । धनपरम् एकीकरणम् , रूप्यकमूल्यवर्धननियन्त्रणाय नया: च सम्पन्मेखलाया: आत्मविश्वासं प्रतिष्ठापयेत्  इति ऐ एम्  एफ् सूचयति । आवेदनानुसारम्  षोडशोत्तरद्विसहस्रे   (२०१६ ) आर्जितात् ५.३ % ( पञ्च दशांशं त्रीणि  प्रतिशतात् ) j सप्तदशोत्तरद्विसहस्रतमे ( २०१७ ) एष्या  ५.५ % (पञ्च दशांशं पञ्च प्रतिशतम् ) वर्धनं रेखाङ्कयेत् इति प्रवचनम् । गतवित्तीयवर्षे ओक्टोबरमासस्य लोक धनतत्वबहिरालोकनम् (वेल्ड् इकणोमिक् औट्लुक्) अपेक्ष्य  सप्तदशोत्तरद्विसहस्रतमे (२०१७) चैनाया: जापानस्य च वर्धनसूचिकाङ्क:  उपरि गच्छेत् इति सूचनापि दीयते ऐ एम्  एफ् संस्थया । भारतस्य कार्ये ; कार्षिकरङ्गे उत्पादनवर्धनाय  अग्रेपि प्रतिसन्धय: परिगणनीया: भवेयु: इति निरीक्षणम्  । कार्षिकरङ्गसम्बद्धान् प्रश्नान् अभिमुखीकर्तुम् बहुविधकार्याणि करणीयानि च वर्तन्ते  इति ऐ एम् एफ्  निर्देश:।।