OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, May 14, 2017

उत्तरप्रदेशे  पुस्तकस्यूतरहितं दिनम्।
लक्नऊ>उत्तरप्रदेशे शनिवार: पुस्तकस्यूतरहितदिनत्वेन उद्घुष्यते  ( नो बाग् डे ) ।  तस्मिन् दिने छात्रा: विना पुस्तकं विना स्यूतं विद्यालयम् आगच्छेयु: । सायं चतुर्वादनपर्यन्तं सक्रीडहासैस्सह तत्र विहरेयु: च  । मुख्यमन्त्रिण: योगी आदित्यनाथस्य निर्देशानुसारमेव  इदम् प्रावर्तीक्रियते ।  एतत् छात्राणां शारीरिकमानसिकारोग्यं  वर्धयेत् ।व्यक्तित्वविकासायापि युक्तं स्यात् । उपमुख्यमन्त्री दिनेश शर्मा  उक्तवान् । प्रथमकक्ष्यात: द्वादशकक्ष्यापर्यन्तम्  एतत् बाधकम् भवति । छात्राध्यापकयो: आत्मबन्धश्च संवर्धयेत् ।भारवत् स्यूतम् एकदिनं वा निवारयेत् इति गुणश्च अस्ति । स्वकीयभारस्य अधिकम् ( त्रिशत् त: चत्वारिंशत् प्रतिशतम् अधिकभार: )  उन्नीयते प्रतिदिनं तै: । किन्तु सर्वकाराणाम् अभिमतेन सह सहमति: नास्ति अध्यापकानाम् । तद्दिने कक्ष्यासु वर्गा: न स्वीक्रियन्ते इत्यत: रक्षितार: छात्रान् विद्यालयं न प्रेषयेयु: । क्रीडापेक्षया ते गृहे भवन्तु इति रक्षितार: चिन्तयेयु: । मध्याह्नं यावत् पठनम्  तत: सायं यावत् क्रीडाश्च भवतु इति तेषाम् अभिप्राय: ।